संस्कृतं केवलं भाषा न, अपि तु ज्ञानस्य प्रौद्योगिक्याश्च विरासत्- प्रो. विजयश्रीवास्तवः

दयालबाग-डीम्ड-विश्वविद्यालये (डी.ई.आई.) संस्कृत-महोत्सवस्य समापनसमारोहे रोजगारात् कृत्रिमबुद्धिपर्यन्तं सम्भावनानां विषये मन्थनम्

वार्ताहर:- प्रवेशकुमारशुक्ल:, आगरा

संस्कृतं केवलं प्राचीनभाषारूपेण सीमितं मन्यते चेत् भारतीयज्ञानपरम्परायाः व्यापकान् आयामान् अवगन्तुं न शक्यते। संस्कृतभाषायां विज्ञानस्य, दर्शनस्य, प्रबन्धनस्य, जीवनदृष्टेश्च सम्बन्धितं विपुलं ज्ञानं निहितमस्ति। आधुनिके युगे च संस्कृतं कौशलस्य, रोजगारस्य, प्रौद्योगिक्याः च क्षेत्रैः सह अपि सम्बध्यते। इति विचारं आर.बी.एस.-महाविद्यालयस्य, आगरा, प्राचार्यः विख्यातश्च शिक्षाविद् प्रो. विजयश्रीवास्तवः दयालबाग-शैक्षिक-संस्थाने (डी.ई.आई.) संस्कृत-सप्ताह-महोत्सवस्य समापनसमारोहे व्यक्तवान्।
संस्कृतं जीवनशैली, ज्ञानस्य च कुञ्जिका
डी.ई.आई.-संस्थायाः कलासंकायस्य संस्कृतविभागस्य तत्त्वावधाने २४ अगस्ततः ३१ अगस्तपर्यन्तं संस्कृत-सप्ताह-महोत्सवस्य आयोजनं कृतम्। तस्य भव्यं समापनसमारोहः सोमवासरे कलासंकाये सम्पन्नः।
महोत्सवस्य मुख्योद्देश्यं विद्यार्थिषु संस्कृतभाषायाः, संस्कृतसाहित्यस्य, भारतीयज्ञानपरम्परायाः भारतीयसंस्कृतेश्च प्रति रुचिं जागरूकतां च वर्धयितुम् आसीत्। अस्मिन् महोत्सवे संस्कृतगीतगायनम्, कथावाचनम्, चित्रकलाप्रतियोगिता, काव्यकण्ठपाठः इत्यादयः विविधाः प्रतियोगिताः आयोजिताः। तासु प्रतियोगितासु प्रायः ७०–८० विद्यार्थिनः उत्साहपूर्वकं सहभागितां कृतवन्तः।
समापनसमारोहे विशिष्टव्याख्यातृरूपेण उपस्थितः प्रो. विजयश्रीवास्तवः संस्कृतं केवलम् अभिव्यक्तेः माध्यमं न मन्यताम्, अपि तु ज्ञानसंरचनायां निहितां वैज्ञानिकां समग्रां च दृष्टिं प्रतिपादितवान्। सः अवदत् यत्
“संस्कृतं जीवनस्य एका शैली अस्ति। देवभाषा संस्कृतिः मानवस्य संस्कारं कुर्वती तं दैवत्वस्य दिशि प्रेरयति तथा च मानवीयचेतनां व्यापकया ब्रह्माण्डीयदृष्ट्या सह संयोजयति।”
भारतीयज्ञानपरम्परायां निहितस्य वैज्ञानिकस्य दार्शनिकस्य च चिन्तनस्य उल्लेखं कुर्वन् सः आयुर्वेदस्य, भगवद्गीतायां निहितानां प्रबन्धनसूत्राणां, १०८-संख्यायाः च सांस्कृतिकवैज्ञानिकसन्दर्भानां विषये विस्तरेण चर्चां कृतवान्।
सः अवदत् यत् धर्म-अर्थ-काम-मोक्षरूपाणां पुरुषार्थानां पूर्णतायै भारतीयज्ञानपरम्परायाः सम्यगवबोधनम् आवश्यकम् अस्ति। अस्याः परम्परायाः गहनज्ञानस्य प्रमुखा कुञ्जिका संस्कृतग्रन्थेषु एव निहिता अस्ति।
रोजगार-कौशलक्षेत्रेऽपि संस्कृतस्य वर्धमानाः सम्भावनाः
प्रो. श्रीवास्तवः अवदत् यत् वर्तमानकाले संस्कृतं केवलं पथप्रदर्शकभाषा नास्ति, अपि तु रोजगारस्य कौशलविकासस्य च अनेकैः अवसरैः सह सम्बद्धा भवति।
सः आग्रानगरस्य संस्कृतपरम्परायाः उल्लेखं कुर्वन् हेनरी रॉथ् तथा दाराशिकोहः इत्येतौ संस्कृताध्ययनशीलौ विद्वांसौ स्मृतवान्।
सः अवदत् यत् संस्कृतस्य विकासस्य, संरक्षणस्य, प्रचारस्य प्रसारस्य च दायित्वं संस्कृतज्ञस्य प्रत्येकस्य व्यक्तेः अस्ति। वर्तमानकाले अस्मिन् दायित्वे दृढनिष्ठया कार्यं कर्तुं सर्वेषां संस्कृतप्रेमिणां आवश्यकता वर्तते।
संस्कृते ज्ञानं, गणना, प्रौद्योगिकी च समारोहे अध्यक्षतां कुर्वन् संस्थानस्य निदेशकः प्रो. सी. पटवर्धनः संस्कृतं कौशल-प्रौद्योगिकी-आधारितज्ञानतन्त्ररूपेण द्रष्टुं आवश्यकता अस्ति इति प्रतिपादितवान्। सः अवदत् यत् संस्कृतं केवलं भाषा न, अपि तु भारतीयसंस्कृतेः ज्ञानपरम्परायाश्च संवाहिका अस्ति।
प्राचीनभारतीयचिन्तने जीवनस्य, मृत्योः, आत्मनः च इत्यादीनां गम्भीरविषयाणां विषये कृतस्य विमर्शस्य उदाहरणरूपेण सः यम-नचिकेतस्संवादस्य उल्लेखं कृतवान्।
सः अवदत् यत् प्राचीनग्रन्थेषु निहितं ज्ञानं तथा गणनापरम्परां च अवगत्य विना नूतनविचाराणां नवाचारस्य च दिशां सम्पूर्णतया अवगन्तुं कठिनम् अस्ति। अतः आधुनिकज्ञानविज्ञानेन सह प्राचीनभारतीयज्ञानपरम्परायाः अध्ययनमपि आवश्यकम् अस्ति।
अस्मिन् अवसरे सः नूतनस्य ‘सर्वम्’ इति कृत्रिमबुद्धि-आधारित-सॉफ्टवेयरस्य उपस्थितजनान् परिचयं कारितवान्।
विद्यार्थिभ्यः पुरस्काराः प्रमाणपत्राणि च समारोहस्य अवसरे कलासंकायस्य अधिष्ठात्री प्रो. नीलू शर्मा तथा च संस्कृतविभागस्य विभागाध्यक्षा डा. अनीता च मञ्चे उपस्थिते आस्ताम्। कार्यक्रमस्य सञ्चालनं डा. पूजा अकरोत्। विभागाध्यक्षा डा. अनीता स्वागतभाषणं प्रस्तुतवती, धन्यवादज्ञापनं च डा. शोभा भारद्वाजः अकरोत्।
समारोहस्य अन्ते संस्कृत-सप्ताहस्य अवधौ आयोजितासु विविधासु प्रतियोगितासु उत्कृष्टप्रदर्शनं कृत्वा स्थानं प्राप्तवद्भ्यः विद्यार्थिभ्यः प्रमाणपत्राणि पुरस्काराश्च प्रदाय सम्मानिताः।
विद्यार्थिनः सम्पूर्णे आयोजने अत्यन्तम् उत्साहेन सहभागितां कृतवन्तः।
कार्यक्रमे संस्कृतविभागात् डा. निशीथ गौड़ः, डा. रुबीना सक्सैना, हिन्दीविभागाध्यक्षा प्रो. शर्मिला सक्सैना, डा. नमस्या, डा. सुमनः, डा. सूरजः, संगीतविभागात् डा. शिवेन्द्र त्रिपाठी इत्यादयः शिक्षकाः उपस्थिताः आसन्।
संस्कृत-सप्ताह-महोत्सवस्य संयोजनं संस्कृतविभागस्य डा. पूजा तथा डा. शोभा भारद्वाज इत्येताभ्यां कृतम्।