संस्कृतभाषा संस्कृतेः संस्काराणां च जीवनरेखा : शक्तिपाठकः

वार्ताहर:- प्रवेशकुमारशुक्ल: , जम्मू

खण्डशिक्षाधिकारी राधाकृष्णशर्मा इत्यस्य मार्गदर्शने क्षेत्रस्य एकादशविद्यालयेषु उत्साहपूर्वकं संस्कृतदिवसः आचरितः। शनिवासरे आयोजितस्य समापनसमारोहस्य शुभारम्भः गुरुकुलस्य विद्यार्थिभिः प्रस्तुतैः मधुरैः वैदिकमङ्गलाचरणैः अभवत्।
कार्यक्रमस्य प्रारम्भे गुरुकुलस्य उपप्राचार्यः शशिनाथउपाध्याय: संस्कृतभाषायाः प्रचार-प्रसारस्य तथा संस्थानेन सञ्चाल्यमानानां शैक्षणिकसांस्कृतिकप्रयासानां विषये विस्तरेण प्रकाशमकरोत्। संस्थानस्य मुख्यन्यासी शक्तिकुमारपाठक: उक्तं यत् संस्कृतभाषा केवलं भाषा नास्ति, अपितु अस्माकं संस्कृतेः संस्काराणां च जीवनरेखा अस्ति। तेन सर्वेषाम् अतिथीनां, विदुषां विद्यार्थिनां च मार्गदर्शनं कृत्वा संस्थानस्य निरन्तरप्रगतेः प्रशंसा कृता।
खण्डशिक्षाधिकारी राधाकृष्णशर्मा इत्यनेन विद्यार्थिनः संस्कृतभाषायाः अध्ययनाय भारतीयसंस्कृतेः संरक्षणाय च प्रेरिताः। प्रबुद्धविद्वान् शिवकुमारपाधा इत्यनेन संस्कृतस्य सांस्कृतिकमहत्त्वविषये स्वविचाराः प्रस्तुताः। आचार्यः क्षेमनारायणरेग्मी व्यावहारिकशैल्या क्रीडाभिः सह उपस्थितानां विद्यार्थिनां, अध्यापकानाम् अध्यापिकानां च संस्कृतभाषायाः सरलतां सहजतां च बोधितवान्।
आचार्यः प्रवीणमणित्रिपाठि संस्कृतसाहित्यस्य समृद्धपरम्परायाः तथा आधुनिकयुगे संस्कृतस्य उपादेयतायाः विषये गहनतया स्वविचारान् प्रस्तुतवान्।
संस्कृत भारती जम्मू-कश्मीर इत्यस्य प्रान्तसङ्गठनमन्त्री ऋषिकुमारमिश्र: इत्यनेन संस्कृतभाषायाः मातृभाषारूपेण जनगणनायां प्रोत्साहनं करणीयम् इति प्रतिपादितम्। तेन उक्तं यत् संस्कृत भारती बालकेन्द्रैः गीताशिक्षणकेन्द्रैश्च समाजं जागरूकं संस्कारयुक्तं च कर्तुं महत्त्वपूर्णं कार्यं क्रियते। समाजस्य प्रत्येकवर्गं प्रति संस्कृतभाषां नेतुं तथा तां व्यावहारिकजीवने स्वीकर्तुं च तेन आह्वानं कृतम्।
समारोहस्य अवसरः विद्यालयानां विद्यार्थिभिः प्रस्तुताभिः विविधाभिः सांस्कृतिकप्रस्तुतिभिः रमणीयः अभवत्। विभिन्नासु प्रतियोगितासु उत्कृष्टं प्रदर्शनं कृतवन्तः विद्यार्थिनः तथा सहयोगिनः सम्मानिताः। अन्ते आचार्या डा.सोनाली इत्यनया धन्यवादज्ञापनं कृतम्।