उल्लासेन समायोजित: हिन्दीदिवस:

वार्ताप्रेषकः-कुलदीपमैन्दोला ।

कोटद्वारंश्रीसिद्धबलीगुरुकुलसंस्कृतविद्यालये हिन्दीदिवसस्य उपलक्ष्ये विशेषकार्यक्रमः समुत्साहेन सम्पन्नः। कार्यक्रमस्य मुख्योद्देश्यः छात्रेषु हिन्दीभाषायाः गौरवबोधनं राष्ट्रभाषायाः महत्त्वस्य च संवर्धनमासीत्।
विद्यालयस्य व्यवस्थापकः डाॅ. रमाकान्तकुकरेती हिन्दीदिवसस्य विषये सविस्तरं व्याख्यानं प्रदाय उक्तवान् यत् हिन्दीभाषा केवलं भाषा नास्ति, अपितु भारतीयसंस्कृतेः राष्ट्रियैक्यस्य जनमानसानां भावनानां च सशक्तं सेतुरस्ति। तेन स्वीयस्वरचितकवितायाः माध्यमेन समस्तदेशवासिभ्यः हिन्दीभाषायाः महिमा, सरलता, आत्मीयता च प्रेरणादायकरूपेण प्रस्तुता।
कार्यक्रमस्य अध्यक्षता प्रधानाचार्यः अशोककुमारजोशी अकरोत्। अस्मिन्नवसरे ऋषिकुमाराः अशुमन्, आदित्यः, आयुष्मान्, निखिलः इत्यादयः छात्राः भावपूर्णेन शैलीना हिन्दीकवितानां वाचनं कृत्वा उपस्थितानां प्रशंसामवापुः।
अन्ते सर्वैः हिन्दीभाषायाः संरक्षणं, संवर्धनं, दैनन्दिनजीवने अधिकप्रयोगश्च इति सामूहिकः सङ्कल्पः स्वीकृतः। एषः हिन्दीदिवसोत्सवः विद्यालयपरिवारस्य कृते प्रेरणादायकः स्मरणीयश्च अभवत्।