उन्नाव संस्कृतप्रतिभा अन्वेषणप्रतियोगिता- २०२६ भव्य-आयोजनं सम्पन्नम्

वार्ताप्रेषकः – राम प्रकाश शुक्ल:

उन्नाव।उत्तरप्रदेशसंस्कृत-संस्थानेन समायोजिता संस्कृतप्रतिभा अन्वेषण-प्रतियोगिता २०२६
१५ सितम्बर २०२६ दिनाङ्के प्रातः ९ वादनात् आरभ्य उन्नाव नगरस्य पी.एम.श्री राजकीय इण्टर कालेज,चमरौली इत्यस्मिन् विद्यालये, अपराह्ने त्रिवादन, पर्यन्तम् आयोजिता।
कार्यक्रमस्य आरम्भः मुख्यातिथिः श्री ओमशंकर मिश्रः वर्यः सरस्वत अतिथिः, निर्णायकमण्डलम्, तथा च मार्गदर्शकशिक्षकाः देवी सरस्वती प्रतिमायाः माल्यार्पणं कुर्वाणः दीपप्रज्वलनं कृतवन्तः। कार्यक्रमस्य अध्यक्षाः प्रधानचार्यः श्री अरविन्द कुमार कुरील महाभागाः आसन्। विद्यालयस्य बालिकाः अतिथिस्वागतार्थं सरस्वतीवन्दनं, संस्कृतभाषायां स्वागतगीतस्य गायनं कृतवत्यः।
जनपदसंयोजकः रामप्रकाश शुक्लः स्वागतभाषणं कुर्वन् अतिथि जनेभ्यः स्मृति चिन्हप्रदानेन आतिथ्यं कृतवान्। मुख्यातिथिः सरस्वत-अतिथिः च प्रतिभागिभ्यः शुभकामनासन्देशं अर्पितवन्तः, अध्यक्षभाषणान्तरं स्पर्धा आरब्धा ।संस्कृतगीतप्रतियोगितायाः निर्णयः डॉ. विवेकमिश्रः, विनयदीक्षितमहोदयः कृतवान्।
प्रतियोगितायाः परिणामः

  • प्रथमस्थाने नन्दिनी राजपूत — पीएम श्री रा.इ. कालेज , चमरौली
  • द्वितीयस्थाने कोमल — रा. बा. इ. कालेज , ‌पड़री खुर्द
  • तृतीयस्थाने अर्जुनः— जय प्रकाश नारायण सर्वोदय विद्यालय: न्योतनी उन्नावः
  • सान्त्वना पुरस्कार : संजना, काजल, तथा च रेणु शर्मा प्राप्तवत्यः।
    संस्कृतसामान्यज्ञानप्रश्नोत्तरप्रतियोगितायाः निर्णयः संगमबाजपेयीमहोदयेन डॉ.मुदिताअस्थानया च कृतम् ।परिणामः
  • प्रथमं स्थानम् -पुष्पा
  • द्वितीयस्थानम्- निकिता
  • तृतीयस्थानम् – नितांशुः
    एते सर्वे प्रतिभागिनः रा.इ.का.चमरौली विद्यालयस्य छात्राः।
  • सान्त्वना पुरस्कारः क्रमशः नितिन, जाह्नवी एवं सिद्धार्थ त्रिवेदी प्राप्तवन्तः। प्रतियोगितायां जनपदस्य शासकीय अशासकीय स्ववित्तपोषित विद्यालयेभ्यः द्विचत्वारिंशत् (४२) प्रतिभागिनः भागं गृहीतवन्तः ।
    पुरस्कारप्रमाणपत्र- प्रदानानन्तरं जनपदसंयोजकः राम प्रकाश शुक्ल: समागतेभ्यः निर्णायकेभ्यः शिक्षकेभ्यः प्रतियोगिभ्यः सहायकेभ्यश्च कार्तज्ञं निवेदितवान्।
    कार्यक्रमस्य समापनम् अपराह्ने ३:०० वादने राष्ट्रगानेन शान्तिपाठेन च अभवत्।