वार्ताहरः – आचार्यः विशालप्रसादभट्टः, कुरुक्षेत्रं, हरियाणा
संस्कृतसूत्राणां सुभाषितानां च निरन्तरं स्मरणेन चिन्तनेन मननेन च अस्माकं अवचेतनमनसि प्रेरणा उत्पद्यते। पुनश्च शनैः शनैः सा प्रेरणा अस्माकं चेतनमनसि व्यवहारे च मूर्तरूपेण परिणता भवति। कुलपतिः, प्रो. वैद्यः करतारसिंहधीमान्
संस्कृतम् आयुर्वेदस्य आत्मतत्त्वं वर्ततॆ। संस्कृतेन विना आयुर्वेदसंहितानाम् अवगमनं न शक्यते। अतः आयुर्वेदाध्ययनाय संस्कृतज्ञानं परमावश्यकम्। – प्राचार्यः, प्रो० आशीषः मेहता
संस्कृतग्रन्थेषु लिखितानि सुभाषितानि अस्माकं जीवनाय उत्तमां प्रेरणां प्रयच्छन्ति। संस्कृतभाषायाः व्याकरणम् अत्यन्तं वैज्ञानिकं सुव्यवस्थितं च अस्ति। अतः संस्कृतं सार्वकालिकी सार्वदेशिकी सार्वभौमिकी चात्यन्तं समृद्धा ज्ञानविज्ञानयोः भाषा वर्तते। – आचार्यः भूपेन्द्रः शर्मा , प्रान्तसहमन्त्री, संस्कृतभारती, हरियाणा
संस्कृतभाषा भारतीयसंस्कृतेः सम्पोषिका, भारतीयभाषाणां जीवनदायिनी प्राणशक्तिः, भारतीयज्ञानपरम्परायाः आधारशिला च वर्तते।
संस्कृताध्ययनेन मानवस्य आत्मविकासः,बौद्धिकविकासः, चारित्रिकविकासश्च सम्भवति। शिक्षायाः उद्देश्यमपि मनुष्यस्य सर्वाङ्गीणः विकासः वर्तते। – आचार्यः विशालप्रसादभट्टः
संस्कृताध्ययनम् एवम् अनुसन्धानसंस्थानम् ,श्रीकृष्णायुषविश्वविद्यालयः, कुरुक्षेत्रम् इत्यस्मिन् केन्द्रीयसंस्कृतविश्वविद्यालयस्य मुक्तस्वाध्यायपीठेन सञ्चालितस्य संस्कृताध्ययकेन्द्रस्य समुद्घाटनकार्यक्रमः त्रिदिवसीयः संस्कृतपरिचयवर्गश्च समारब्धोSभवत्।
तत्रादौ कार्यक्रमस्य शुभारम्भः समागतातिथिभिः मङ्गलाचरणपुरस्सरं दीपप्रज्ज्वालनेन शारदासमर्चनेन विहितः।
तदनन्तरं संस्थानस्यास्य छात्रैः मधुरस्वरेण सरस्वतीवन्दना प्रस्तुता।
कार्यक्रमोSयं राष्ट्रगीतं वन्देमातरमित्येतस्य समवेतगानेन समारब्धः।
तदनु सर्वेषां मञ्चस्थातिथिनां स्वागतं पुष्पगुच्छप्रदानेन “साइन्स इन संस्कृतम्” इति पुस्तकसमर्पणेन कृतम्।
तदनु संस्कृताध्ययनम् एवम् अनुसन्धानसंस्थानस्य प्राचार्यः डॉ० आशीषः मेहता स्वीये स्वागतभाषणे संस्कृताध्ययनकेन्द्रस्य महत्तां प्रतिपाद्य संस्कृतभाषाप्रमाणपत्रीयपाठ्यक्रमे प्रवेशं स्वीकर्तुं समुपस्थितान् शिक्षकान् छात्रान् च प्रेरितवान्।
तदनन्तरं केन्द्रशिक्षकः आचार्यः विशालप्रसादभट्टः प्रास्ताविकोद्बोधने केन्द्रीयसंस्कृतविश्वविद्यालयस्य मुक्तस्वाध्यायपीठेन आभारते आधुनिकोच्चसंस्थासु सञ्चालितानां संस्कृताध्ययनकेन्द्राणां परिचयपुरस्सरं संस्कृतभाषाप्रमाणपत्रीयपाठ्यक्रमस्य महत्त्वं प्रतिपाद्यच समर्थपटलमाध्यमेन प्रवेशं स्वीकर्तुं सर्वान् शिक्षकान् छात्रान् च सम्प्रेरयत्। कार्यक्रमस्य मुख्यातिथिः संस्कृतभारत्याः हरियाणाप्रान्तस्य सहप्रान्तमन्त्री आचार्यः भूपेन्द्रः शर्मा प्रोक्तवान् यत् संस्कृतस्य महिमानं सर्वे जानन्ति एव परन्तु इदानीं संस्कृतं व्यवहारपथे आनयनस्य आवश्यकता वर्तते । तदर्थं संस्कृतेन सम्भाषणं करणीयम्। संस्कृतम् अस्माकं दैनन्दिनजीवनस्य व्यवहारभाषा भवेत्। तदर्थम् एतत् संस्कृताध्ययनकेन्द्रं समुद्घाटितं वर्तते। अस्मिन् पाठ्यक्रमे भवन्तः सर्वे प्रवेशं स्वीकृत्य सरलतया संस्कृतसम्भाषणं शिक्षितुं शक्नुवन्ति। संस्कृतभाषाशिक्षणेन भवन्तः आयुर्वेदग्रन्थान् इतोऽपि सम्यक्तया अवगन्तुं शक्ष्यन्ति।
वयं भारतीयाः इत्यस्मात् वयं सश्रद्धं संस्कृतं पठेम।
तदनु श्रीकृष्णायुषविश्वविद्यालयस्य माननीयः कुलपतिः प्रो. वैद्यः करतारसिंह धीमान् स्वीये अध्यक्षीयोद्बोधने कथितवान् यत् आयुर्वेदसंहितासु विद्यमानसूत्राणां श्लोकानां च परिज्ञानाय अर्थावबोधाय च संस्कृतभाषाज्ञानं परमावश्यकं वर्तते। संस्कृताध्ययनं केवलं पराक्षोत्तीर्णतायै प्रमाणपत्रप्राप्तये सीमितं न भवेत्। अपितु संस्कृतस्य सूत्राणि जीवने आचराणाय सन्ति। तदनु कुलपतिवर्यः सर्वेभ्यः छात्रेभ्यः शिक्षकेभ्यश्च शुभकामनाः समर्प्य सोत्साहं संस्कृताध्यनाय सम्प्रेरयत्।
कार्यक्रमस्य सफलं सञ्चालनं डॉ० रिद्धिः कृतवती।
कार्यक्रमेSस्मिन् कुलानुशासकः प्रो० सतीशः वत्सः,प्रो० दीप्ति पाराशरः, संस्कृताध्ययनकेन्द्रस्य केन्द्राधिकारिणी डॉ० लसिता सनल, डॉ.कृष्णकुमारः, डॉ० सीमा रानी, विश्वविद्यालयस्य नैके प्राध्यापकाः, कर्मचारिणः,छात्रछात्राश्च उपस्थिताः आसन्।











