पश्चिमबङ्गविधानसभानिर्वाचनस्य प्रथमचरणस्य मतदानं श्वः भविष्यति।
पश्चिमबङ्गविधानसभानिर्वाचनस्य प्रथमचरणस्य मतदानं श्वः १६ जिल्लासु व्याप्यमाणेषु १५२ आसनेषु भविष्यति। अस्माकं संवाददाता सूचयति यत् अस्मिन् चरणे १४७८ अभ्यर्थिनः स्पर्धां कुर्वन्ति।भारतीयनिर्वाचनआयोगेन स्वच्छं न्याय्यं शान्तिपूर्णं च निर्वाचनं सम्पादयितुं सर्वाणि व्यवस्थापनानि कृतानि सन्ति। मतदानं ४४,३७६ मतदानकेन्द्रेषु भविष्यति, येषु प्रायः ३००० सहायकमतदानकेन्द्राणि अपि सन्ति। ५४४४ मतदानकेन्द्राणि केवलं महिलाभिः सञ्चालितानि भविष्यन्ति, तथा च २०७ आदर्शमतदानकेन्द्राणि सन्ति।बालुरघाट-असन्सोल-दक्षिण-विधानसभाक्षेत्रयोः द्वे दिव्याङ्गजनैः सञ्चालिते मतदानकेन्द्रे […]
Swipe left to go to next post











