पश्चिमबङ्गविधानसभानिर्वाचनस्य प्रथमचरणस्य मतदानं श्वः भविष्यति।

पश्चिमबङ्गविधानसभानिर्वाचनस्य प्रथमचरणस्य मतदानं श्वः १६ जिल्लासु व्याप्यमाणेषु १५२ आसनेषु भविष्यति। अस्माकं संवाददाता सूचयति यत् अस्मिन् चरणे १४७८ अभ्यर्थिनः स्पर्धां कुर्वन्ति।
भारतीयनिर्वाचनआयोगेन स्वच्छं न्याय्यं शान्तिपूर्णं च निर्वाचनं सम्पादयितुं सर्वाणि व्यवस्थापनानि कृतानि सन्ति। मतदानं ४४,३७६ मतदानकेन्द्रेषु भविष्यति, येषु प्रायः ३००० सहायकमतदानकेन्द्राणि अपि सन्ति। ५४४४ मतदानकेन्द्राणि केवलं महिलाभिः सञ्चालितानि भविष्यन्ति, तथा च २०७ आदर्शमतदानकेन्द्राणि सन्ति।
बालुरघाट-असन्सोल-दक्षिण-विधानसभाक्षेत्रयोः द्वे दिव्याङ्गजनैः सञ्चालिते मतदानकेन्द्रे स्तः। प्रथमचरणे १६७ महिला-अभ्यर्थिनः अपि स्पर्धायां सन्ति। सर्वेषु मतदानकेन्द्रेषु शतप्रतिशतं जालप्रसारणं (वेब्-कास्टिङ्ग्) भविष्यति। शान्तिपूर्णमतदानाय आयोगेन त्वरितप्रतिक्रियादलानि (QRT), उड्डयनदले (फ्लाइङ्ग् स्क्वाड्), सीसीटीवी-कैमरा-व्यवस्था इत्यादयः सर्वे सुरक्षोपायाः कृताः सन्ति।
पश्चिमबङ्गविधानसभानिर्वाचनस्य द्वितीयचरणस्य मतदानं आगामि बुधवासरे भविष्यति।