भारतीय-दलेन विश्वचषकं स्वायत्तीकृतम्
रोहित-शर्मणः नेतृत्वे भारतीयदलेन बारबाडोसे आयोजिते निर्णायके द्वन्द्वे आई.सी.सी.विंशति-प्रतिविंशति-विश्वचषकीय-क्रिकेट्-स्पर्धा-शृङ्खला विजिता। शनिवासरे जूनमासस्य ऊनत्रिंशे दिनाङ्के दक्षिण-आफ्रिका-विरुद्धं रोमाञ्चकर्याम् अन्तिम-क्रीडायां भारतीय-दलेन विश्वचषकं स्वायत्तीकृतम्भारतेन दक्षिणाफ्रीका-दलं सप्त-धावनांकैः पराजितम्। पूर्व प्रथमं दण्डेन क्रीडता भारतेन विंशति-क्षेपचक्रेषु ऐतिहासिक-रूपेण षट्-सप्तत्यधिक-शतं धावनांकाः अर्जिताः। प्रत्युत्तरे दक्षिणाफ्रीकादलम् उनसप्तत्यधिक-शतं धावनांकान् एव अर्जितुं अपारयत्।प्रधानमन्त्री श्रीनरेन्द्रमोदी नवीदिल्लीनगरे स्वनिवासस्थाने विंशतिम् प्रतिविंशति- विश्व-चषक-विजेत्रा भारतीय-पुरुष-क्रिकेट्दलेन सह मिलितवान्। भारतीय-क्रिकेट-दल-नायकः रोहित शर्मा, प्रशिक्षकः राहुल द्रविडः, विराट […]
Swipe left to go to next post











