भारतीय-दलेन विश्वचषकं स्वायत्तीकृतम्

रोहित-शर्मणः नेतृत्वे भारतीयदलेन बारबाडोसे आयोजिते निर्णायके द्वन्द्वे आई.सी.सी.विंशति-प्रतिविंशति-विश्वचषकीय-क्रिकेट्-स्पर्धा-शृङ्खला विजिता। शनिवासरे जूनमासस्य ऊनत्रिंशे दिनाङ्के दक्षिण-आफ्रिका-विरुद्धं रोमाञ्चकर्याम् अन्तिम-क्रीडायां भारतीय-दलेन विश्वचषकं स्वायत्तीकृतम्भारतेन दक्षिणाफ्रीका-दलं सप्त-धावनांकैः पराजितम्। पूर्व प्रथमं दण्डेन क्रीडता भारतेन विंशति-क्षेपचक्रेषु ऐतिहासिक-रूपेण षट्-सप्तत्यधिक-शतं धावनांकाः अर्जिताः। प्रत्युत्तरे दक्षिणाफ्रीकादलम् उनसप्तत्यधिक-शतं धावनांकान् एव अर्जितुं अपारयत्।
प्रधानमन्त्री श्रीनरेन्द्रमोदी नवीदिल्लीनगरे स्वनिवासस्थाने विंशतिम् प्रतिविंशति- विश्व-चषक-विजेत्रा भारतीय-पुरुष-क्रिकेट्दलेन सह मिलितवान्। भारतीय-क्रिकेट-दल-नायकः रोहित शर्मा, प्रशिक्षकः राहुल द्रविडः, विराट कोहली, हार्दिक पाण्ड्या, सूर्य कुमार यादवः,जसप्रीत बुमराहसदृशाः अन्ये क्रीडकाः उपस्थिताः आसन्। प्रधानमन्त्री क्रीडकैः सह संवादं कृतवान् यत्र ते स्वस्य अनुभवान् विनिमयी-कृतवन्तः। भारतीयक्रिकेटदलम् नवदिल्लीं सम्प्राप्तम्, तेषां भव्यं स्वागतं जातम्। भारतीय-पुरुष-क्रिकेट्-दलं बार्वडोस्-नगरात् स्वदेशं प्रत्यागतम्, अपि च विश्वविजयीभूय दलस्य पुनरागमनं भव्यं जातम् । शनिवासरे जूनमासस्य ऊनत्रिंशे दिनाङ्के दक्षिण-आफ्रिका-विरुद्धं रोमाञ्चकर्याम् अन्तिम-क्रीडायां भारतीय-दलेन विश्वचषकं स्वायत्तीकृतम्। एतस्मिन् विशेषे क्षणे दलं प्रधानमन्त्रिणा नरेन्द्रमोदिना मिलितम्। क्रीडकैः मोदिना सह प्रातः भोजनं कृतम्। अत्रावसरे श्रीमोदिना तेषां क्रीडकानां विजयस्य प्रशंसा कृता। तदनन्तरं दलं पथप्रदर्शनार्थं मुम्बईनगरं प्रति निर्गतम्। दलनायकः रोहितशर्मा प्रशंसकानां कृते उत्सवे सम्मिलितुं हृदयहारि आह्वानं कृतवान्। अवधेयमस्ति यत् तेषां क्रीडकानां भारतं पुनरागमनं झव्झावातेन विलम्बितम् चेदपि सर्वे प्रशंसकाः उत्सुकतापूर्वकं स्वदलस्य प्रतीक्षां कृतवन्तः।