संस्कृतसाहित्ये अङ्कानां लेखनं वामतो भवति – डा० छबिलालन्यौपानेः
बिहारराज्यान्तर्गते दरभङ्गाजनपदे कविनागार्जुनजन्मभूमौ तरौनीग्रामेऽवस्थितेन कामेश्वरसिंहदरभङ्गासंस्कृतविश्वविद्यालयस्याङ्गीभूतेन नागार्जुन-उमेश-संस्कृतमहाविद्यालयेन आयोजिते द्वितीयदशदिवसीय-संस्कृतसम्भाषणशिविरस्य नवमदिवसे दर्शनविषयकसहायकप्राध्यापकेन डा०छबिलालन्यौपानेमहोदयेन शिविरे भागग्रहीतॄन् चत्वारिशत् छात्रान् संख्यासुलिङ्गभेदः, समाजार्थम्, संस्कृतकार्यार्थम्, तव्यत्, अनीयर्, अनन्त्यकथारचना, प्रश्नोत्तरम्, समाजनिधिविषये पुनः स्मारणम्, ऐक्यमन्त्रः चेत्यादिविविधविषयाः पाठिताः।तैः प्रोक्तं यत् संस्कृते कासाञ्चन सङ्ख्यानां नामानि अव्युत्पन्नानि सन्ति, कासाञ्चन च नामानि प्रक्रियया साधयितुं शक्यन्ते । एक, द्वि, त्रि, चतुर्, पञ्चन्, षष्, सप्तन्, अष्टन्, नवन्, दशन्, विंशति, त्रिंशत्, […]
Swipe left to go to next post












