संस्कृतसाहित्ये अङ्कानां लेखनं वामतो भवति – डा० छबिलालन्यौपानेः

बिहारराज्यान्तर्गते दरभङ्गाजनपदे कविनागार्जुनजन्मभूमौ तरौनीग्रामेऽवस्थितेन कामेश्वरसिंहदरभङ्गासंस्कृतविश्वविद्यालयस्याङ्गीभूतेन नागार्जुन-उमेश-संस्कृतमहाविद्यालयेन आयोजिते द्वितीयदशदिवसीय-संस्कृतसम्भाषणशिविरस्य नवमदिवसे दर्शनविषयकसहायकप्राध्यापकेन डा०छबिलालन्यौपानेमहोदयेन शिविरे भागग्रहीतॄन् चत्वारिशत् छात्रान् संख्यासुलिङ्गभेदः, समाजार्थम्, संस्कृतकार्यार्थम्, तव्यत्, अनीयर्, अनन्त्यकथारचना, प्रश्नोत्तरम्, समाजनिधिविषये पुनः स्मारणम्, ऐक्यमन्त्रः चेत्यादिविविधविषयाः पाठिताः।
तैः प्रोक्तं यत् संस्कृते कासाञ्चन सङ्ख्यानां नामानि अव्युत्पन्नानि सन्ति, कासाञ्चन च नामानि प्रक्रियया साधयितुं शक्यन्ते । एक, द्वि, त्रि, चतुर्, पञ्चन्, षष्, सप्तन्, अष्टन्, नवन्, दशन्, विंशति, त्रिंशत्, चत्वारिंशत्, पञ्चाशत्, षष्टि, सप्तति, अशीति, नवति, शत, सहस्र, अयुत, लक्ष, प्रयुत, कोटि, अर्बुद, अब्ज, खर्व, निखर्व, महापद्म, शङ्कु, जलधि, अन्त्य, मध्य, परार्ध चैते सङ्ख्याशब्दाः अव्युत्पन्नाः सन्ति। एतेषां सङ्ख्याशब्दानां प्रक्रिया पाणिनीयसूत्रैः दर्शयितुं न शक्यते। अतः एतेषां सर्वेषाम् अर्थवदधातुरप्रत्ययः प्रातिपदिकम् इत्यनेन सूत्रेण प्रातिपदिकसंज्ञा भवति। एतेषां सर्वेषां साहाय्येन महत्य: सङ्ख्या: अपि सरलतया लेखितुं शक्यन्ते ।
उपरिनिर्दिष्टान् सङ्ख्याशब्दान् विहाय अन्येषां सर्वेषां शब्दानां (इत्युक्ते, “एकादश”, “द्वादश” आदीनाम्) व्युत्पत्ति: पाणिनीयसूत्रै: निर्देष्टुं शक्यते । एते सर्वे शब्दा: विशेषण-पूर्वपद-तत्पुरुष-समास-निर्मिता: सन्ति । “एकाधिका: दश”, “द्व्यधिका: दश” आदीनि एतेषां विग्रहवाक्यानि । “एक च दश च” / “द्वौ च दश च” एतादृशम् द्वन्द्वसमासेनापि एतेषां निर्माणं कर्तुं शक्यते । अत: एतेषां सर्वेषां प्रातिपदिकसंज्ञा कृत्-तद्धित-समासाश्च इत्यनेन भवति । एतेषां सर्वेषां प्रक्रियाया: प्रथम: अंश: सर्वत्र समान: अस्ति । सुपो धातुप्रातिपदिकयो: इति सुप्-प्रत्यययो: लोपे कृते “एक + दशन्”, “द्वि + दशन्” एतादृशं पदद्वयं सिद्ध्यति । तदनन्तरम् प्रत्येकस्य सङ्ख्याशब्दस्य प्रक्रिया भिन्ना वर्तते।
संस्कृते संख्यानां लेखनं दक्षिणत: वामदिशि भवति । यथा – 23456 इति लेखितुमिच्छामश्चेत् दक्षिणत: क्रमेण -एतत् सर्वं “अधिक / उत्तर” शब्दाभ्यां योजयित्वा, आवश्यकं चेत् आदेशादीन् कृत्वा – “षट्पञ्चाशतोत्तरचतु:शताधिकत्रिसहस्राधिकद्व्ययुतम्” इति नाम सिद्ध्यति । अनेनैव प्रकारेण अन्यासां सङ्ख्यानाम् नामानि देयानि ।
अवसरेऽस्मिन् महाविद्यालयस्य प्रधानाचार्यः डा०रामसंयोगरायवर्यः, शिविरसंयोजकः वीरसनातनपूर्णेन्दुरायः, अन्ये शिक्षकाः डा.सरस्वतीकुमारी, डा.सरिताकुमारी, डा.विभूतिनाथझाः, शिक्षकेतरकर्मी श्रीमुकुन्दकुमारः चोपस्थिताः आसन्।