आत्मनिवेदनम्
विगतरामनवम्यां प्रारब्धस्य ‘वाक्’ इति पाक्षिकपत्रस्य सफलतापूर्वकम् विंशति वर्षान् अतीतम्। अस्मिन् अवधौ अस्माभिः किं किं विशिष्टं कृतम् इति विचारणस्य अयं समीचीनः अवसरः वर्तते।
वाक् इति समाचारपत्रम् उत्तराखण्डतः प्रकाश्यमानं प्रथमं पाक्षिकसमाचारपत्रं वर्तते । अस्य समाचारपत्रस्य प्रतिष्ठापनं बुद्धदेवशर्मणा कृतमासीत् । संस्कृताय समर्पितजीवन संस्कृतप्रचाराय प्रसाराय च कटिबद्ध: बुद्धदेवमहोदय: समाजे संस्कृतस्य स्वीकार्यतासंवर्धयितुं वाक् इत्याख्यस्य वार्तापत्रस्य स्थापनां कृतवान् आसीत्।
यदा देशे संस्कृतवार्तापत्राणाम् अभाव: आसीत् तदा बुद्धदेवमहोदयेन अस्य समाचारपत्रस्य स्थापनां विधाय संस्कृतवार्ताप्रसारणस्य पूर्ति: कृता । दैवयोगात् अद्य बुद्धदेवमहोदय: अस्माकं मध्ये नास्ति किन्तु तेन स्थापितम् इदं समाचारपत्र संस्कृतमातुः सेवायै निरन्तरं प्रसरति। तेन दृष्ट: संस्कृतप्रचारस्य स्वप्न निश्चयेन सिद्धि प्राप्स्यति ।
कालचक्रं तु निरन्तरम् एव प्रवर्तते अतः अस्मिन् कालावधौ कृतानां कार्याणम् एकवारम् चिन्तनं कुर्मः ॥ सर्वप्रथमं तु विंशति वर्षाणाम् कालावधौ एव पत्रं देशव्यापि सञ्जातम्। उत्तराञ्चले तु प्रत्येकस्मिन् जनपदे संस्कृतविद्यालयेषु, संस्कृत महाविद्यालयेषु, उच्चतरमाध्यमिकविद्यालयेषु पत्रम् प्रमुखरूपेण प्राप्यते।
समाचारपत्रे निरन्तरं प्रकाश्यमानः स्तम्भः सामान्यज्ञानं बहूपयोगि इति अनुभूयते । एतद् अहं पाठकैः छात्रैः च अस्य विषये प्रकटितायाः जिज्ञासाया: आधारे कथयामि। अनेकेषां कार्यकर्तॄणां संस्कृतपत्रकारितायाम् अभिरुचिः समुत्पन्ना। ते निरन्तरं तत्रत्यान् समाचारान् संस्कृतेन प्रेषयन्ति । सम्पूर्णदेशात् पत्रं प्रति यदुत्साहवर्धनं प्रशंसापत्राणि च अस्मभ्यं मिलन्ति तत् सर्वम् नूतनां प्रेरणां प्रददाति। ते सर्वे धन्यवादार्हाः ये पत्रमाध्यमेन गद्येन श्लोकरचनां च विधाय अस्मान् प्रशसितवन्तः। एतादृशेन प्रशंसापत्रमाध्यमेन भवन्तः संस्कृतमातरम् एव प्रशंसन्ति इत्यस्मिन् विषये मम मनसि नास्ति शड्कालवोऽपि ।
अस्मिन् अवधौ ये केऽपि लेखरचना- समाचाप्रेषण ग्राहकनिर्माणादि- विविधप्रकारेण साहाय्यं कृतवन्तः वयं तान् सर्वान् प्रति कृतज्ञतां प्रकटीकृत्य परमेश्वरं प्रार्थयामः यत् सः सर्वेभ्यः संस्कृतसेवायै दृढां सङ्कल्पशक्तिं दद्यात् येन वयं सर्वे स्वलक्ष्यं प्रति अग्रेसराः भवितुं शक्नुयाम।











