भोपालम्। तत्र उदघाटनं संस्कृत विश्वविद्यालयस्य भोपाल परिसरे जातम् । अस्मिन् अवसरे कार्यक्रमस्य अध्यक्षतां कुर्वन् कुलपतिः श्री निवासबरखेड़ी अवदत् संस्कृतं नाट्यमन्चनस्य साहित्य सौंदर्यस्य च अभावे चैतन्य बोधं प्राप्तुं नार्हति। समारोहस्मिन् मुख्य अतिथि: महाभारतचलचित्रिकायां श्रीकृष्णस्य भूमिका निर्व्यूवान् श्रीनितीश भारद्वाजः कथितवान् यत् भरतस्य नाट्यशास्त्रं वस्तुतः नाट्यसंहिता वर्तते । सारस्वतः अतिथिः पाणिनि संस्कृत विश्वविद्यालय, उज्जैनस्य वैदिक विश्वविद्यालय उज्जैनस्य च कुलपति: प्रो. सो.जी. विजयकुमार: रस अभिव्यक्तये नेत्र भंगिमायाः महत्वं बोधितवान्। अस्मिन् अवसरे भोपाल परिसरस्य निदेशक प्रो. जी. भानुमूर्तिः अवोचत् यत् मध्य प्रदेशे रंग पंचमी विशेषरूपेण समाचर्यते । एतत् मंचन सांस्कृतिक विशेषतानां दृष्ट्या महत्वपूर्णम् अस्ति । अस्य महोत्सवस्य संयोजक: प्रो. रमाकांतपांडे कार्यक्रमस्य रूपरेखा विस्तारेण बोधितवान्। लखनऊपरिसरस्य प्राचार्यः सर्वनारायणझा नाट्य मंचने संवादशुद्धतायाः आवश्यकता प्रौक्त्वान् ।











