भारत-अमेरिका-देशयोः मध्ये टू प्लस टू इति चतुर्थी मन्त्रिस्तरीया वार्ता सम्पन्ना

भारत:- अमेरिका:
गत सप्ताहे वाशिंग्टन-नगरे भारत-अमेरिका-देशयोः मध्ये टू प्लस टू इति चतुर्थी मन्त्रिस्तरीया वार्ता सम्पन्ना। देश-द्वयेनापि क्षेत्रीय-स्थिरतां सुनिश्चेतुं विधि-व्यवस्थायाः नियमानाम् अनुपालनपरकः च संकल्प: पुनरीदितः । अत्रान्तरे भारतामेरिकादेशयोः मध्ये विदेश-नीति-रक्षा सुरक्षादि-क्षेत्रीया: पारस्परिक हितविषया: चर्चिता: । वार्तानन्तरं रक्षामन्त्री राजनाथ सिंह वार्ताहरान् सम्बोधितवान्। प्रोक्तवान् यत् द्वयोः देशयोः मध्ये परिणामप्रदा चर्चा सम्पन्ना। विश्वस्य महत्वपूर्णानि सकलप्रायाणि प्रकरणानि समीक्षितानि। भारत-प्रशान्त क्षेत्रस्य अथ एतस्य प्रतिवेशि-देशानां स्थितिः अपि सविस्तरं चर्चितं गता। तत्रच वार्ताहर सम्मेलने विदेशमन्त्री एस् जयशंकरः उक्तवान् यत् जगत् यदा नक्कानि समाहवानानि समस्या: च सम्मुखीकुर्वत् अस्ति, एतस्मिन् काले इयं मन्त्रणा समाचरति। विदेशमन्त्रिणा प्रतिपादितं यत् भारतं रूसदेशात् निज-ऊर्जा-सुरक्षाया। ऊर्जा क्रीणाति। अपरत्र अमेरिकीय: राज्यसचिव: एंटनी ब्लिंकन् इत्येष: कथितवान् यत् यूक्रेनस्य समस्यानां समाधानाय निर्णयार्थ भारतं सर्वथा स्वतन्त्रम् अस्ति। अमेरिकायाः रक्षासचिव: कथितवान् यत् राष्ट्रपति: जो बाइडेन् भारतेन सह अमेरिकायाः सुदृढ-सम्बन्ध स्थापनाय महत्वं ददाति ।
भारत-अमेरिकाम्यां चतुर्ध्या ‘टू प्लस टू’ इ ति मन्त्रिस्तरीय वार्तायां क्षेत्रीयर्यास्थरतायाः विधिशासनस्य सम्वर्द्वनस्य संकल्पः प्रकटितः
भारत-अमेरिकयोः मध्ये चतुर्थी टू प्लस टू इति मन्त्रिस्तरीया वार्ता समायोजिता। रक्षामन्त्री राजनाथसिंहः, विदेशमन्त्री डॉ. सुब्रमण्यम – जयशंकरश्च भारतीय प्रतिनिधि मण्डलस्य नेतृत्वं कृतवन्तौ । अमेरिकीय प्रतिनिधिमण्डलस्य नेतृत्वं तत्रत्यः विदेशमन्त्री ‘एंटनी ब्लिंकनः’, रक्षामन्त्री लॉयड-ऑस्टिन इत्यसौ च विहितवन्तौ। टू प्लस टू वार्ता माध्ययेन भारत-अमेरिकयोः विदेशनीति, रक्षां, सुरक्षां च समेत्य नैकेषु महत्वपूर्ण प्रकरणेषु व्यापकसमीक्षा जाता।
वार्तानन्तरं वार्ताहरान् सम्बोधयन् रक्षामन्त्री राजनाथ सिंहः, अमेरिकायाः उभाभ्यां मन्त्रिभ्यां, प्रतिनिधिमण्डलाय च धन्यवाद ज्ञापितवान्। श्री सिंह: भारत-अमेरिकयोः द्विपक्षीय सम्बन्धान् प्रति एंटनी ब्लिकन लॉयड ऑस्टिन इत्यनयो” प्रतिबद्धतां प्रशंसितवान्। उपवेशने हिन्द-महासागर क्षेत्रे, प्रतिवेशि-देशानां विषये च चर्चा संजाता।