केन्द्रीयसंस्कृतविश्वविश्वविद्यालयस्य प्रवेशप्रणाली

(वार्ताहरः-प्रवेशकुमारशुक्लः)

केन्द्रीयसंस्कृतविश्वविद्यालय लखनऊ-परिसरे नामांकन प्रक्रिया समारब्धा। अस्मिन् सत्रे नवशिक्षानीत्यनुसारं एन. टी. ए.(N.T.A) इत्यनया संस्थया द्वारा (सी.यू. ई. टी.) इति परिक्षाधारेण प्रवेशो भविष्यति।गोमतीतटस्थ लक्षमणपुरस्थ भारतसर्वकारेण द्वारा संस्थापित एषमो विश्वविद्यालयो विगतषडत्रिंशत (३६) वर्षेभ्यः संस्कृतस्य संस्कृतेश्च रक्षणार्थं नित्यनूतनसंस्कृतवाग्डमयानुसन्धानस्य कार्यं कुर्वन्नस्ति। संस्थायाः निदेशकाः प्रो. सर्वनारायण झा महाभागैः प्रोक्तं यत् । अस्मद् विश्वविद्यालये कस्मादपि मान्यताप्राप्तविद्यालयादुच्चतरमाध्यमिककक्षामुत्तीर्य नामांकनाय विश्वविद्यालयस्य अणुवाके( वेवसाइट) शक्ताणुवाकादावेदनङ्कर्तुमर्हाः । नामांकनप्रभारी डा. अश्विनी पाण्डेयः व्याचष्टे यदस्मिन् विश्वविद्यालये ज्योतिष- वेद-साहित्य-व्याकरण-दर्शनादीनां शिक्षा प्रदीयते। अस्माद् विश्वविद्यालयादधीतच्छात्राः देशेषु विदेशेषु च समुन्नतपदेषु संस्कारसंस्कृत्योः रक्षणनिमित्तप्रायाः । अतो नामांकनाय निम्नाकिंतजालपुटानुगुणं http://cuet.samarth.ac.in, www.nta.ac.in, www.sanskrit.nic.in सम्पर्कायार्हास्सन्ति। नामांकनसम्बन्धिज्ञानमणुवाके समुपलभ्यते।