हनुमज्जन्मोत्वसम उपलक्ष्य प्रधानमन्त्री गुजराते हनुमतः अष्टाधिकैक-शत फीट्-मितां प्रतिमां अनावृतवान्

प्रधानमन्त्री नरेन्द्र मोदी हनुमज्जन्मोत्वसम उपलक्ष्य गुजराते हनुमतः अष्टाधिकैक-शत फीट्-मितां प्रतिमां अनावृतवान् गुजरातस्य मोरबीक्षेत्रे आयोजिते कार्यक्रमे प्रधानमन्त्री दृश्य श्रव्य-तन्त्र माध्यमेन सहभागिताम् कृतवान् । अत्रावसरे सः उक्तवान् यत् मोरबीक्षेत्रे हनुमतः प्रतिमाया: लोकार्पणं विहितमिति अशेष जगतः श्रद्धालुभ्यः सुखप्रदा सूचना अस्ति। प्रधानमन्त्री कथितववान् प्रदेशस्य चतुर्षु भागेषु हनुमतः प्रतिमाचतुष्टयं स्थापयिष्यते इति एषा परियोजना एक भारतं श्रेष्ठ भारताख्यं संकल्पं द्योतयति। तेन प्रतिपादितं रामकथायाः आयोजनं देशस्य विभिन्नेषु क्षेत्रेषु अनेकासु भाषासु च विधीयते, यद्धि सर्वान भगवतः भक्तिसूत्रान्वितं करोति। प्रधानमन्त्री अग्रे कथितवान् यत् अस्माकं आस्थायाः संस्कृतेः च धारा सद्भाव-समानता समावेश-परा अस्ति। रामकथा च सबका साथ-सबका प्रयासेति भावनाया: सर्वोत्कृष्टोदाहरणत्वेन अस्ति। अवधेयं यत् हनुमतः चतुर्धाम परियोजनान्तर्गतं देशे चतुर्षु दिक्षु चतस्रः प्रतिमा स्थापयिष्यन्ते तासु एषा द्वितीया प्रतिमा अस्ति । एषा प्रतिमा बापूकेशवानन्दवर्यस्य आश्रमे प्रतिष्ठापिता अस्ति। अस्यां श्रृंखलायां प्रथमा प्रतिमा शिमलानगरे प्रतिष्ठापिता आसीत् ॥ तत्रैव दक्षिणभार्ग अपि प्रतिमायाः प्रतिष्ठापनाय निर्माणकार्य समारब्धम् ।