(वार्ताहरः-प्रवेशकुमारशुक्लः)
“प्राणभ्योSपिप्रिया सीता रामस्यासीन्न संशयः“
अये सनातनधर्मावलम्बिनः सहर्षेण बोध्यते यत् के. सं. वि. विद्यालयस्य कुलपतिनः प्रो. श्री निवास वरखेङी महोदयानां कथनमासीत् यत् रामनवमीमारभ्य हनुमत्जैयन्तीम्यावत् केन्द्रीयसंस्कृतविश्वविद्यालयस्य विविधपरिसरेषु आदिकाव्यस्य वाल्मीकिरामायणस्य निर्दिष्टकाण्डस्य पाठं भविष्यति । तमेवानुसृत्य लखनऊ-परिसरे किष्किन्धाकाण्डस्य सम्पूर्णसप्तषष्टिः सर्गस्य पाठमभूत्। प्रो. सर्वनारायण झा महोदयस्य निदेशकत्वे पारायणानन्तरं कार्यक्रमस्य मार्गदर्शकाः -प्रो. लोकमान्य मिश्र, प्रो. एम. चन्द्रशेखर , प्रो. मदन मोहन पाठक, एवञ्च प्रो. देवी प्रसाद द्विवेदी, प्रो. अवनीश अग्रवाल, प्रो. धनीन्द्र झा, प्रो. शिशिर कुमार पाण्डेय , डा. दी. दयानाथ, डा. धर्मेंद्र पाठक, डा चन्द्र श्री. , डा. अनिरुद्व शुक्ल ,डा. प्रमोदकुमारशुक्ल ,डा. रुद्रनारायण नरसिंह मिश्र, डा. पवन दीक्षितप्रभृत्याचार्यैः हवनं कृतवन्तम् । कार्यक्रस्य प्रभारी डा. नीरज तिवारी महाभागस्य निर्देशने एवं डा. गणेश शंकर विद्यार्थी , डा. प्रदीप कुमार दीक्षित महोदयोः संयोजकत्वे सम्पनमभवत् कार्यक्रममेतत्। कार्यक्रमेSस्मिन् वेदव्याकरणज्योतिषसाहित्यबौद्धदर्शन शिक्षाशास्त्र विभागस्य छात्राः समुपस्थिताः आसन्।











