पं. शिवकुमारशर्मा – निधनम्

महान् सन्तूर वाद्ययन्त्रविशेषज्ञः पद्मविभूषणेन विभूषितः पं. शिवकुमारशर्मा मुम्बय्यां दिवंगतः। तस्य जन्म त्र्यशीतिवर्षपूर्वं जम्मू-कश्मीर-राज्ये अभवत्। पंचवर्षीय-वयसि एव सः शास्त्रीयगायनेन सह तबलेति वाद्ययन्त्रस्य अपि शिक्षा समारब्धवानासीत् 1 अनन्तरं तेन त्रयोदशवर्षवयसि सन्तूरस्य शिक्षा समारब्धा। स: विगतेभ्यः षण्मासेभ्य: वृक्कजनित रोगेण ग्रस्तः आसीत्। सः संगीत-नाटक अकादम्या: सम्मानितः आसीत् । विषयेऽस्मिन् प्रधानमन्त्री नरेन्द्रमोदी स्वशोक-सन्देशं प्रकटयत् उक्तवान् यत् श्रीशिवकुमारशर्मावर्येण ‘सन्तूर’इति वाद्ययन्त्रं आसंसारं प्रचारितम्, तेन निर्मितं संगीतं आगामिनां यूनां मनोरंजनं मार्गदर्शनं च करिष्यति