संस्कृतजगतः मूर्धन्यः विद्वान् कविश्य आचार्यः रमाकान्तशुक्लः गतसप्ताहे पञ्चत्वे विलीनः। असौ रेलमार्गद्वारा दिल्लीतः झारखण्ड प्रति गच्छन् आसीत्। मार्ग अकस्मात् एव अलीगढस्थाने आचार्यप्रवरस्य उद्गतिः सम्मानेन सममेव अवस्था द्व्यशीतिवर्षीयः आचार्यः शुक्ल: पद्मश्रीरिति अलङ्कृतः आसीत्। राष्ट्रपतिसम्मानप्रमाणपत्र समेत्य साहित्याकादेमीपुरस्कार-सहशैः अनेक पुरस्कारै सभाजितः आचार्यशुक्लः आधुनिकसंस्कृतकवितायाः युगे राष्ट्रचेतनायाः उदात्तस्वरः आसीत्। सः दिल्याः देववाणी-परिषदः संस्थापक अध्यक्षश्च अर्वाचीन संस्कृतस्य यशस्वी सम्पादकः साथैकशतादपि अधिकग्रन्थानां सम्पादकः अखिलभारतीय प्राच्यविद्यासम्मेलनस्य संयोजकः, भारतीय संस्कृत पत्रकार सङ्घस्य अध्यक्षः च अवर्तत
पद्मश्री रमाकान्तशुक्लमहोदयः भाति में भारतम् इति काव्यमुखेन भारतस्य प्रत्येक जन संस्कृतानुप्राणितम् आपादयितुम् अवेष्टत । तदीयं काव्यमिदं संस्कृतस्य राष्ट्रगीतमिव समाद्रियते ।
अपरतः गतदिने एव पद्मश्रीः भागीरथप्रसादत्रिपाठिवागीशशास्त्रिवर्यः अपि गोलोक गतः। आचार्यः तेषु विद्वत्सु अन्यतमः आसीत् यैः प्रभूतसंख्याया वैदेशिका: संस्कृतम् अध्यापिताः। सुख्याता पॉपसंगीतगायिका मैडोना अपि तस्मात् संस्कृत श्लोकानां शुद्धोच्चारणम् अधीतवती ।











