न ह्यधार्मेण राजर्षिः पाण्डवो जेतुमिच्छति

मार्कण्डेय शारदेयः (पटना, बिहारस्थः)

इदानीं रूस-यूक्रेनयोः मध्ये महायुद्धं प्रवर्तमानम्। सम्पूर्णस्य विश्वस्य कृते भयावहम्। अनेकैः अत्याधुनिकैः महामारकैः विध्वंसकैः विस्फोटकैः आयुधैश्च विशेषेण यूक्रेनस्य जनाः मृताः, तेषां व्यापाराः अपि विध्वस्ताः। बहूनि ऐतिहासिकानि स्थलानि, विपणि-स्थानानि, सैन्यस्थानानि, आयुधागाराः, अन्न-तैलादीनां भण्डागाराः, विद्युच्छालाः, प्रयोगशालाश्च समाप्ताः। रूसस्यापि अनधिका हानिः, परन्तु उभयोः मध्ये न कोऽपि नन्तुकामः।
संसारेण प्रथमं विश्वयुद्धं दृष्टम्। इतिहासः साक्षी यत् 28.07.1914 तः 11.11.1918 दिनाङ्कं यावत् चलिते तस्मिन् युद्धे 9 कोटिः सैनिकाः 1.3 कोटिः नागरिकाश्च हताः। पुनः तत्प्रभावेण उत्पन्नेन स्पेनिश फ्लू इत्याख्या महामार्या कोट्यधिकाः संक्रमिताः जनाः पञ्चत्वं गताः। एवमेव, 1939 तः 1945 खृष्टीयं वर्षं यावत् चलिते द्वितीये विश्वयुद्धे प्रायेण पञ्चकोटितः सप्तकोटि-संख्यका जनाः मृताः।
इदानीम् अपि विश्वयुद्धं महाकालवत् उपस्थितिं दर्शयति। युद्धस्य बिभीषिकां सञ्चिन्य परिणामं चानुमीय संयम एव एकोपायः, शान्तिवार्ता एव समाधानम्। अहम्मन्यता कदापि कंश्चिचित् किञ्चिदपि न उपाकरोति। इयं लोकहन्त्री अहम्मन्यस्य अपि न रक्षिका।
भारते रामायणीया महाभारतीया च द्वे प्रमुखे कथे प्रचलिते। यद्यपि इमे घ़टने इतिहासे बद्धे न स्तः, तथापि पूर्णतः ऐतिहासिक्यौ एव। राम-रावणयोः युद्धं तस्य कालस्य घटना, यस्मिन् विश्वस्य कस्मिंश्चिद् अपि देशे इतिहास-लेखनस्य पितुरपि जन्म न अभवत्। किन्तु, महाभारत-युद्धस्य कालः विभिन्नैः साक्षिभिः भारतीयैः वैदेशिकैश्च शोधकर्तृभिः स्व-स्वमतैः कालो निर्धारितः। तेषु च चिन्तामणि विनायक वैद्य महोदयेन 3101 खृष्टपूर्वं मतम्।
महाभारत-युद्धं तु न भिन्नेभ्यः देशेभ्यः, अपितु एकस्मिन् परिवारे परस्परं पैतृव्य-भ्रातृषु एव।परन्तु, उभयोः पक्षयोः मित्राणां सहय्यात् विश्वयुद्धम् एव आसीत् तत्। अस्मिन् एकस्मिन् पक्षप्रमुखः दुर्योधनः तु द्वितीयः पक्षप्रमुखः युधिष्ठिरः। कथ्यते, अस्मिन् अष्टादश- अक्षौहिणी सैनिकाः सम्मिलिताः हताश्च। विद्वन्मतेन एकस्याम् अक्षौहिण्याम्- 21870 संख्यकाः गजारोहिणः, 21870 संख्यकाः रथारोहिणः, 65610 संख्यकाः अश्वारोहिणः, 109350 पदातयश्च सैनिकाः भवन्ति। समुदायेन 218700 संख्येयम्।अतः अष्टादश अक्षौहिणीषु 3,936,600 इति संख्यकाः वीराः हताः। किन्तु, स्त्रीपर्वणि युधिष्ठिरस्य अनुसारेण मृतानां संख्या ईदृशी-
‘दशायुतानाम् अयुतं सहस्राणि च विंशतिः।
कोट्यः षष्टिश्च षट् चैव ह्यस्मिन् राजन् मृधे हताः।।
अलक्षितानां वीराणां सहस्राणि चतुर्दश।
दश चान्यानि राजेन्द्र शतं षष्टिश्च पञ्च च
’।। 26.9-10)
अर्थात्, तस्मिन् महायुद्धे 1660020000 संख्यकाः वीराः वीरगतिं प्राप्तवन्तः, एतदतिरिक्ताः 24165 सैनिकाः लुप्ताः, अलक्षिताः इति।
अस्तु, इदानीं मिसाइल-सदृशानि अनेकानि आयुधानि प्रचलितानि, किन्तु महाभारत-कालेऽपि नानाविधानि अस्त्र-शस्त्राणि उल्लिखितानि।तदा धनुष्य-बाणाः, शक्तिः, एकघ्नी, चक्रम्, अग्न्यत्रम्, वाय्वस्त्रम्, वैष्णवास्त्रम्, पाशुपतास्त्रम्, नारायणास्त्रम्, पन्नगास्त्रम्, ब्रह्मास्त्रम्, गदा, खड्गम् आदीनाम् अनेकेषां दिव्यादिव्यानां शस्त्रास्त्राणां प्रयोगः आसीत्। किन्तु, ब्रह्मास्त्रं सर्वोपरि आसीत्, अतः तत् प्रयोगे निषिद्धम् आसीत्। ब्रह्मास्त्रं ब्रह्मास्त्रेण प्रतिक्रियते नान्यैः अस्त्रै। तथापि परिणामो भयंकरः एव। तद्यथा व्यासवचनम्-
‘अस्त्रं ब्रह्मशिरो यत्र परमास्त्रेण वध्यते।
समा द्वादश पर्जन्यः तद्राष्ट्रं नाभिवर्षति
’।। (10.15.23)
आशयोऽयम्, ब्रह्मशिरः (ब्रह्मास्त्रम्) परमास्त्रेण ब्रह्मास्त्रेणैव वध्यम्, संहर्तव्यम्।किन्तु, परिणामोऽयं यत् यस्मिन् देशे प्रयुज्यते संहृयते च तत्र द्वादश वर्षाणि यावत् अनावृष्टिः भवति। द्वितीयेन विश्वयुद्धेन जापानस्य हिरोशिमा- नागासाकी नाम्नोः नगरयोः या दुर्गतिः सा सर्वविदितैव। अतः तादृशः परिणामः ब्रह्मास्त्रस्यापि ज्ञेयः। तात्पर्योऽयं यत् तस्मिन् समयेऽपि तदस्त्रं दैविकं परमाण्वस्त्रम् एव आसीत्।
वस्तुतः अस्य ब्रह्मास्त्रस्य प्रयोगवेत्तारः सर्वे महारथिनः नासन्। द्रोणाचार्यस्य शिष्येषु अर्जुनः अश्वत्थामा च मुख्यौ। परन्तु, अनयोः अपि अर्जुनः सम्यग् वेत्ता, सम्यक् प्रयोक्ता च। सः तस्य प्रयोगस्य प्रभावं कुप्रभावं जानाति स्म, तथा च तस्य कालमपि जानाति स्म। यथा समुद्रः अपार-जलराशिम् अधिगम्यापि गम्भीरः, तथैव कौन्तेयोऽपि स्थिरचित्तः आसीत्। तद्विपर्ययः द्रोणपुत्रः गुरुभ्राता अश्वत्थामा।
अस्तु, पराजयंगते दुर्योधने क्रोध-पारावारे निमज्जमानः अश्वत्थामा सुषुप्तानं द्रौपदीपुत्रान् पाण्डवान् मत्वा तान् अहन्। आत्मानं दण्डयितुम् आगतान् पाण्डवान् विलोक्य व्यासाश्रमे ‘अपाण्डवाय’ इति संकल्प्य वह्नितेजः अभिमन्त्र्य च तद्दिव्यास्त्रं विसृष्टवान्। तत्प्रतिकारार्थम् एव धनञ्जयोऽपि विसृष्टवान्। किन्तु, विश्व-विनाशकतां विचार्य व्यास-नारदयोः आज्ञां सम्पाल्य च प्रतिसंहृतवान् अपि। अतः कौन्तेयं प्रशंसन् व्यासः कथयति-
‘ब्रह्मास्त्रम् अप्यवाप्यैतद् उपदेशात् पितुः तव।
क्षात्रधर्मात् महाबाहुः नाकम्पत धनञ्जयः।।
एवं धृतिमतः साधोः सर्वास्त्र- विदुषः सतः।
सभ्रातृबन्धोः कस्मात्त्वं वधमस्य चिकीर्षसि
’।। (10.15.21-22)
किन्तु द्रोणपुत्रः तु प्रतिसंहृत्याः कलाम् एव न जानाति स्म। अतः सः व्यासम् अकथयत्- ‘न च शक्तोऽस्मि भगवन् संहर्तुं पुनरुद्यतम्’ (10.15.32)। अतएव तेन केवलं तत्प्रभावम् अल्पीकृतम्, येन उत्तरायाः गर्भः प्रभावितः। पुनः श्रीकृष्ण-कृपया सुरक्षितेन गर्भेण अपरिक्षित् नाम वंशधरो जातः। अतः व्यासवचनं लोकहिते विशेषेण धार्यम्, यत् सः उभयोः पक्षयोः राष्ट्रस्य च कृते ब्रह्मास्त्रं निवारयितुं द्रौणिम् उपादिशत्-
‘पाण्डवाः त्वञ्च राष्ट्रं च सदा संरक्ष्यमेव हि।
तस्मात् संहर दिव्यं त्वम् अस्त्रम् एतत् महाभुज
’।। (10.15.25)
व्यासः दिव्यद्रष्टा आसीत्। सर्वेषां हितैषिणश्च। सः पाण्डवानाम् अपि शक्तिं धैर्यं धर्मं च सर्वं जानाति स्म। तेषु पाण्डवेषु अपि युधिष्ठिरस्य, यस्य नेतृत्वे धर्मयुद्धम् अभवत्, यः धर्मराज इति नाम्ना विख्यातश्च आसीत्, सः निश्चयेन प्रकृत्या साधुः आसीत्। तस्य अनुजाः आज्ञाकारिणः एव। अनेन सः द्रौणिं रोषं त्यक्तुञ्च एवम् अवदत्-
‘अरोषः तव चैवास्तु पार्थाः सन्तु निरामयाः।
न ह्यधर्मेण राजर्षिः पाण्डवो जेतुमिच्छति
’। (10.15.26)