महापुरुषैः सम्बद्धस्थलानि भविष्यन्ति पर्यटनस्य केन्द्राणि योगिसर्वकारेण पर्यटनसुविधानां कारयते विकासः, पर्यटनस्य मानचित्रं स्थापयिष्यते पर्यटनसम्बद्धव्यवसायेषु वृत्त्यां च भविष्यति वृद्धिः, क्षेत्रस्य अपि भविष्यति विकासः

लखनऊ, 18 मई
योगिसर्वकारेण प्रदेशे पर्यटनं वर्धितुं प्रत्येकं सम्भवः प्रयासः क्रियते अपि च उत्तरप्रदेशं पर्यटनस्य वृहद् केन्द्र निर्मातुम् इच्छते। अस्मिन् क्रमे प्रदेशसर्वकारेण महापुरुषैः संबद्धानां स्थलानां पर्यटनस्य केन्द्ररूपेण विकासः करिष्यते । अनेन पर्यटनेन युक्तेभ्यः व्यवसायेभ्यः वर्धनं प्राप्स्यते साकमेव युवभ्यःवृत्त्याः अवसराः विकसिताः भविष्यन्ति ।
योगिसर्वकारः उत्तरप्रदेशः पर्यटनस्य विश्वमानचित्रे स्थापयितुम् इच्छति । एतन्निमित्तं पर्यटनेन युक्ताः सर्वाः सम्भावनाः धरातले अवतारयितुं प्रदेशसर्वकारेण प्रयासः क्रियते । तद् धार्मिकं पर्यटनं भवतु ईकोपर्यटनं वा। सर्वकारस्य जिजीविषा अस्ति यत् प्रदेशे आधिक्येन पर्यटकाः आगच्छेयुः अपि च अत्रत्यः आर्थिकविकासे योगदानं दद्युः ।
अस्मिन् क्रमे प्रदेशसर्वकारेण महापुरुषैः युक्तानि स्थलानि पर्यटनस्य केन्द्ररूपेण विकसितानि कारयते । अत्र पर्यटनाय आवश्यकसुविधानां विकासः क्रियते । महापुरूषाणां मूर्त्यः स्थाप्यन्ते । साकमेव निकटस्थाः आवश्यकसुविधाः वर्धते । पर्यटकानाम् आकर्षणाय उद्यानानि, रज्जुमार्गः चेत्यादिनाम् अपि निर्माणं क्रियते ।
योगिसर्वकारः चित्रकूटस्य लालापुरे महर्षिवाल्मीक्याश्रमे पर्यटनविकासस्य कार्यं कारयति । प्रथमचरणे 187.15 लक्षरुप्यकाणां कार्यं पूरितम्। द्वितीयचरणे 184.95लक्षरुप्यकाणां कार्यम् एकस्मिन् वर्षे पूर्णं भविष्यति। तृतीयचरणे पीपीपीप्रतिदर्शे रज्जुमार्गस्य निर्माणम् अपि प्रस्तावितम् अस्ति । वाराणस्यां सन्तरविदासस्य जन्मस्थल्यां पर्यटनविकासस्य कार्यं भवति । प्रथमचरणे 1514.02 लक्षरुप्यकैः निर्माणं कार्यं निरन्तरं भवति । द्वितीयचरणे सन्तरविदाससङ्ग्रालयस्य निर्माणं प्रस्तावितम् अस्ति ।
प्रयागराजस्य शृङ्गेश्वरे निषादराजगुहायां युक्तानि स्थलानि पर्यटकेभ्यः विकसितानि क्रियन्ते । अत्र निर्माणकार्येन सह भगवतः श्रीरामस्य निषादराजस्य च आलिङ्गनं कुर्वता एकपञ्चाशतफिटमितस्य कांस्यप्रतिमा स्थापयिष्यते । लखनऊजनपदे महाराजाबिजलीपासीकिल्लायाः पर्यटनविकासः क्रियते । अत्र विद्युतध्वनिप्रदर्शनम् अपि आरब्धुं योजना अस्ति । अनेन सहैव बहराइचजनपदे महाराजसुहेलदेवस्य स्मृत्यां भव्यस्मारकं निर्मास्यते ।
प्रदेशसर्वकारेण एतेषाम स्थलानां विकासं कृत्वा पर्यटनेन युक्तेभ्यः व्यवसायेभ्यः अपि वर्धनं प्रदास्यते । अत्र यात्रा आवासः इत्यादिषु व्यवसायेषु वृद्धि भविष्यति । अनेन सहैव अत्र युक्तानां क्षेत्राणां विकासाय गतिः अपि मिलिष्यति ।