भारत-नेपालदेशयोर्मध्ये अद्य षट सन्धिज्ञापन पत्राणि हस्ताक्षरितानि परस्पर प्रत्यर्पितानि चा एतेषु बौद्ध अध्ययनाय डॉ. आम्बेडकरपीठस्य स्थापनायै भारतीय सांस्कृतिक संबंध परिषद् लुम्बिनी बौद्ध विश्वविद्यालय चान्तरा सहमति ज्ञापन पत्र अस्ति सम्मिलितम्। अरुण चतुर्थ इत्येतस्याः परियोजनाया: विकासाय कार्यान्वयनाय च एस.जे.वी.एन्. लिमिटेड-समवाय नेपाल विद्युत् प्राधिकरणं चान्तरा एक सन्धिपत्र हस्ताक्षरैः प्रमाणितम्। नेपालदेशीयं यात्रारतं प्रधानमन्त्रिणं नरेन्द्रमोदिन, नेपाल प्रधानमन्त्रिणं शेर बहादुर देउबा इत्येन चान्तरा द्विपाक्षिक बार्तानन्तरं सहमतिज्ञापन सन्धि-पत्राणि हस्ताक्षरै प्रमाणितानि। इतः प्राक् प्रधानमन्त्री नरेन्द्रमोदी भगवतः बुद्धस्य जन्मस्थले लुम्बिनीग्रामस्थानके वैशाख-बुद्ध पूर्णिमा- समारोहे भागम् अग्रहीत्। प्रधानमन्त्री लुम्बन्या पवित्र मायादेवी मन्दिरे पूर्जाचनां कृतवान्। प्रधानमन्त्री श्रीमोदी लुम्बिनी-मठ-क्षेत्रस्य अन्तः परिसेरे बौद्ध संस्कृति-न्यासाय एकस्मै अद्वितीय केन्द्र निर्माणाय शिलान्यास समारोहे भागं अग्रहीत्। अवधेयास्पदं वर्तते यत् अस्य शताब्दस्य चतुर्दशवर्षाद् प्रधानमन्त्रिपदे आरूढ सति प्रधानमन्त्रिण: मोदिन: इयं पंचमी नेपालयात्रा विद्यते।











