प्रधानमन्त्री नरेन्द्रमोदी गुजरातस्य भरूचे ‘उत्कर्ष समारोह’ सम्बोधितवान्

प्रधानमन्त्री नरेन्द्रमोदी गुजरातस्य भरूचे ‘उत्कर्ष समारोह’ सम्बोधितवान् । अवधेयं यत् राज्यसर्वकारस्य चतसृणां प्रमुखयोजनानां- पूर्ण सफलतां उपलक्ष्य अयं कार्यक्रमः आयोजितः । एताभिः योजनाभिः लाभार्थिभ्यः प्रतिसमयं वित्तीय सहाय्यं प्रदास्यते । समारोहं दृश्यसम्वाद — माध्यमेन सम्बोधयन् प्रधानमन्त्री प्रोक्तवान् यत् अयं समारोहः प्रमाणीकरोति यत् यदा सर्वकारः दृढसड़कल्पेन सह लाभार्थिभ्यः कार्य करोति तदा अनेन सार्थक-परिणामाः प्राप्यन्ते सः सामाजिक सुरक्षा सम्बद्धयोजनानां साफल्यमधिकृत्य भरूच -जनपद-प्रशासनं गुजरातसर्वकारं च अभिशंसितवान् । श्रीमोदी प्रोक्तवान् यत् यदा विंशति-चतुर्दशतमाब्दे अस्माकं दलस्य सर्वकारः शासनम् अधिगतवान् तदा देशस्य अर्ध जनसंख्या विविधसौविध्यैः वञ्चिता आसीत् । प्रधानमन्त्री मोदी विभिन्न योजनानां महिला लाभार्थिभिः सह सम्वाद कृतवान श्रीमोदी तासां दैनिकजीवने समुत्पन्नं काठिन्यमधिकृत्य ताभिः प्रश्नं कृतवान् तेषां निवारणाय परामर्श च दत्तवान् । अस्मिन्नवसरे गुजरातस्य मुख्यमन्त्री भूपेन्द्रपटेलः अपि उपस्थितः आसीत् ।