‘आईबीए’ विश्वमहिलाप्रतिस्-मुष्टिमुष्टा-पर्धाया क्रीडिका निकहतजरीन-मुष्टिरणे भारतीया मुष्टाद्वादशे संस्क : पञ्च म्शून्य’इत्यन्तरालेन विजयं प्राप्य स्वर्णपदकं विजितवती

‘आईबीए‘ विश्वमहिला-मुष्टामुष्टि प्रतिस्पर्धायाः द्वादशे संस्करणे भारतीया मुष्टामुष्टि-क्रीडिका निकहतजरीन: गतदिने पञ्च शून्यम्’ इत्यन्तरालेन विजयं प्राप्य स्वर्णपदकं विजितवती ।
निकहतजरीन: द्विपञ्चाशत्-किलोग्रामवर्गीये निर्णायके द्वन्द्वे थाइलैण्डदेशीयां ‘जितपोंग जुतामास’ इत्येता पराजितवती, अर्थ निर्णायकसमूहेन भारतीय पक्षे ‘त्रिंशत्-सप्तविंशतिः एकोनत्रिंशत्-अष्टाविंशतिः ‘एकोनत्रिंशत्-अष्टाविंशतिः त्रिंशत्-सप्तविंशतिः’, ‘एकोनत्रिंशत्-अष्टाविंशतिः ‘इत्यन्तरालप्रकारीयः निर्णयः प्रदत्तः । निकहत-जरीन: विश्वमुष्टामुष्टि प्रतिस्पर्धायां स्वर्णपदक विजेत्री पञ्चमीभारतीया महिलाक्रीडिका जाता।
प्रधानमन्त्री वर्धापनानि
प्रधानमन्त्री नरेन्द्रमोदी ‘निकहत-जरीन’ इत्येतस्यै क्रीडिकायै महिला विश्व प्रतिस्पर्धायां स्वर्णपदक प्राप्ति-मुपलक्ष्य वर्धापनानि दत्तवान्। एकस्मिन् ट्वीट श्रीमोदी मनीषा मौनः परवीन: हुड्डाः इत्येताभ्या-मपि प्रतिस्पर्धायां कांस्यपदकप्राप्तिमालक्ष्य शुभाशयाः दत्तवान्।