उत्तराखण्डस्यः मुख्यमन्त्री भजपेति-दलस्य प्रत्याशी पुष्करसिंह धामी चम्पावत विधानसभा क्षेत्रतः अर्धलक्षाधिकैः मतैः निर्वाचितः। तेन कांग्रेसदलप्रत्याशिनी निर्मला-गहतोरी पराजिता। अस्मिन् अवसरे प्रधानमन्त्री नरेन्द्रमोदी, भाजपा इति दलस्य राष्ट्रियः अध्यक्षः जगत्प्रकाशनड्डा, उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथादयः नेतारः तस्मै वर्धापनानि प्रेषितवन्तः। अस्मिन् कीर्तिमति विजये मुख्यमन्त्री धामी धन्यवादं ज्ञापयन् उक्तवान् यत् विजयोऽयं चम्पावत जनानामस्ति। सः उक्त्वान् अस्य प्रतिफलनं विकासकार्यैः चम्पावतजनेभ्य: प्रत्यर्पयिष्यते इति।
सद्यःआयोजिते विधानसभानिर्वाचने ७० आसनेषु भाजपा ४७ आसनानि प्राप्तवती , काङ्ग्रेसः १९ आसनानि प्राप्तवान्, बसपा, निर्दलीयः च द्वौ-द्वौ आसनानि प्राप्तवन्तौ । यद्यपि भाजपा उत्तरखण्डे सत्तां प्रति प्रत्यागन्तुं प्रथमः सत्ताधारी दलः अभवत् , श्री पुष्कर सिंह धामी खटीमातः विजयं प्राप्तुं न शक्तवान्।











