राष्ट्रपतिना रामनाथकोविन्देन उत्तरप्रदेश-राज्यविधानमण्डलस्य संयुक्तसत्रं सम्बोधितवान्। अम्ना अद्य लखनऊनगरे राज्यविधानमण्डलं सम्बोधयन् उक्तं यत् उत्तरप्रदेशराज्यं अनेकतायाम् एकतायाः जीवन्तोदाहारणम् अस्ति। राज्यस्य सामाजिक, सांस्कृतिकं, आर्थिक भौगोलिकं च विविधता: लोकतन्त्रं सबलीकरोति । श्री कोविन्देन एतदपि उक्तं यत् उत्तरप्रदेशराज्यं शीघ्रमेव एकाब्ज डॉलर परिमितं अर्थव्यवस्थां प्राप्स्यति इति। राष्ट्रपतिना उक्तं यत् बाबासाहेब भीमराव अम्बेडकरेण प्रोक्तमासीत् यत् भारतीयलोकतन्त्रस्य बीजं पाश्चात्यै न अपितु भारतीयइतिहासे बुद्धकालीनसमाजे संघेषु लभ्यते इति । अत्रैव असौ स्वीय भाषणावसरे एतदपि न्यगादीत् यत् उत्तरप्रदेश विधानसभायाम् सप्तचत्वारिंशत् महिला सदस्यानां उपस्थितिः स्वागतयोग्यं वर्तते। पुनश्च उत्तरप्रदेशराज्येन भारतीयराजनीतौ जवाहरलालनेहरुः, लालबहादुरशास्त्री, इन्दिरागांधी, चौधरीचरणसिंह, अटलबिहारीवाजपेयी अपि च अन्य अपि बहवः सुप्रसिद्धाः नेतारः प्रदत्ताः सन्ति । अमुना एतदपि प्रोक्तं यत एतस्मात् राज्यात् अद्यावधिः देशेन नव प्रधानमन्त्रिणः लब्धोऽस्ति ।











