हरियाणायाम् एकविंशत्यधिक-द्विसहस्रतमवर्षस्य ‘खेलो इण्डिया यूथ गेम्स्’ इत्येतस्य समारोहस्य चतुर्थ-संस्करणस्य आयोजनं अभवत्

हरियाणाप्रशासनेन सर्वविधतया सज्जतायाः सह जूनमासस्य प्रथमसप्ताहे ‘खेलो भारत युवक्रीडायाः’ इत्यस्य क्रीडा-महोत्सवस्य चतुर्थ-संस्करणं आरम्भः कृतः। हरियाणायाम् एकविंशत्यधिक-द्विसहस्रतमवर्षस्य ‘खेलो इण्डिया यूथ गेम्स्’ इत्येतस्य समारोहस्य चतुर्थ-संस्करणस्य आयोजनं प्रारब्धम्। गृहमन्त्रिणा अमितशाहेन क्रीडानां ‘शुभारम्भस्य’ घोषणा कृता। उद्घाटन-समारोहे युवा -खेलमन्त्री अनुरागठाकुरः, हरियाणायाः मुख्यमन्त्री मनोहरलालः, हरियाणायाः खेलमन्त्री सन्दीपसिंहः च उपस्थिताः आसन्। अस्मिन् क्रीडामहोत्सवान्तर्गतं पञ्चकुला, अम्बाला, शाहबाद, चण्डीगढ दिल्ली चेति नगरेषु पञ्चविंशति-क्रीडानां प्रतियोगितायाः आयोजनं भविष्यति। यस्मिन् विभिना राज्येषु पादोन पञ्चसहस्रसंख्याकाः प्रायः क्रीडका: प्रतिभागित्वं करिष्यन्ति, येषु सपादद्विसहस्रप्रायः महिला-क्रीडिकाः अपि भविष्यन्ति। येषु अष्टविंशत्यधिक-पञ्चशत-क्रीडकाः हरियाणातः सन्ति। आयोजनेऽस्मिन् पादकन्दुकं, बैडमिन्टन, टेबलटेनिस, कबड्डी, हैण्डबॉल, मुष्टामुष्टी, द्वन्दादय: क्रीडाः भविष्यन्ति। अधुना यावत् क्रीडाप्रतियोगितायां महाराष्ट्र राज्यं स्वीय नवस्वर्णपदकसहितं शीर्षस्थाने अपि च हरियाणाराज्यं षड्स्वर्णपदकसहितं द्वितीयस्थाने तत्रैव मणिपुरराज्यं चतुःस्वर्णपदकसहितं तृतीयस्थाने अस्ति।