कपोतस्य अतिथिसत्कारः

कश्चन व्याधः आसीत् । सः अतीवः दुष्टः निष्करुणः च एकदा सः वनं गतवान् । तत्र जालं प्रसारितवान् । एका कपोता जाले पतिता । तां कपोतां पञ्जरे स्थापयित्वा व्याधः अग्रे गतवान् तदा अकस्मात् महती वृष्टिः आरब्धा । महता वेगेन वायुः वाति स्म अपि । भीतः व्याधः आश्रयम् अन्विष्यन् कस्यचित् महावृक्षस्य अधः आगतवान् सः उक्तवान् – “भोः, अत्र यः वासं करोति तम् अहं शरणं गतः अस्मि सः मां रक्षतु” इति ।
तस्मिन् वृक्षे कश्चन कपोतः वासं करोति स्म । सः एव व्याधेन गृहीतायाः कपोतायाः पतिः आसीत्
कपोतः व्याधस्य पञ्जरे स्थितां पत्नीं दृष्टवान् तदा सा कपोता पतिम् उक्तवती – “भोः कान्त ! इदानीम् एषः व्याधः शीतार्तः, क्षुधार्तः च सन् अस्माकं गृहम् आगतवान् अस्ति एतस्य सत्कारः भवता करणीयः । व्याधः मां बद्धवान् इति भवान् मा चिन्तयतु । एतस्य सत्कारं करोतु” इति ।
पन्याः वचनं कपोतः अङ्गीकृतवान् । सः अङ्गारकम् आनीय शुष्कैः पर्णैः अग्निं ज्वालितवान् । व्याधम् उक्तवान् – “भोः व्याध । एतेन अग्निना भवान् स्वस्य शीतबाधां दूरीकरोतु ” इति । अनन्तरं कपोतः चिन्तितवान् – ‘एषः व्याधः मम अतिथिः अस्ति । एषः इदानीं बुभुक्षितः अस्ति । एतस्मै दातुं कोऽपि आहारः अत्र नास्ति । किं करोमि ?’ इति ।
एवं चिन्तयित्वा सः व्याधम् उक्तवान्- “भोः अतिथिमहाशय ! भवान् एकं क्षणं तिष्ठतु । इदानीं भवते आहारं सिद्धं कृत्वा ददामि ” इति । अनन्तरं कपोतः स्वयम् अग्निं प्रविष्टवान् ।
‘मम मांसं व्याधः खादतु’ इति तस्य आशयः आसीत् ।
कपोतस्य त्यागं दृष्टवतः व्याधस्य लज्जा जाता । सः करुणया कपोतां पञ्जरतः बन्धविमुक्तां कृतवान् । तदा पतिविरहपीडिता कपोता अपि अग्निं प्रविष्टवती ।
एतत् दृष्टवतः व्याधस्य मनसः परिवर्तनं जातम् । एतादृशाः पक्षिणः अपि धर्माचरणं कुर्वन्ति । अहं तु अन्येषां प्राणिनां प्राणानाम् अपहरणं कुर्वन् अधर्मेण जीवामि । एतत् अनुचितम्’ इति चिन्तयित्वा सः व्याधः अपि अग्निं प्रविश्य प्राणार्पणं कृतवान् । अनन्तरं ते त्रयः अपि स्वर्गं गतवन्तः ।