पाकिस्तानदेशे निरन्तरतया अल्पसंख्यकेषु अनादृत व्यवहारम् आलक्ष्य भारतदेशेन तीव्रभर्त्सना कृता। वार्ताहाराणां प्रश्नशमनपूर्वकं पाकिस्तानदेशस्य प्रधानमन्त्रिणः ट्वीटसन्देशस्योत्तरे विदेश विभागस्य सचिव: अरिन्दमबागची उक्तवान् यत् भारतदेश: सर्वधर्मावलम्बितेषु उच्चतम् आदरभावं धत्ते परन्तु पाकिस्तानदेशे तु ये धार्मिकी दुर्भावना भरिताः क्रूरकर्माणः भवन्ति तेषां यशोगानं क्रियते सहैव स्मारकाणि अपि तेषां रच्यन्ते











