देशस्य ऐषमः बृहत्तमस्य भारत-ड्रोन महोत्सवस्य शुभारम्भं

प्रधानमंत्री नरेन्द्रमोदी नवदेहल्या: ‘प्रगति मैदान’ – इति प्रांगणे देशस्य ऐषमः बृहत्तमस्य भारत-ड्रोन महोत्सवस्य शुभारम्भं कृतवान्। एष: महोत्सव: द्विदिवसीयो वर्तते, एतस्मिन् अवसरे प्रधानमंत्री नरेन्द्रमोदी कृषकाड्रोन- उड्डयन-कर्तृभिः सह सम्वादं स्थापितवान्, तदनन्तरं ड्रोनोड्डयनप्रदर्शनमपि श्री मोदी अवलोकितवान्। अथ श्री मोदी सर्वान् मन्त्रिणः अधिकारिणश्चापि एतत् प्रदर्शनं अवलोकयितुं समाहूतवान्।
महोत्सवस्यउद्घाटनावसरे सम्भाषते स्म प्रधानमंत्री नरेन्द्रमोदी प्रोक्तवान् यत् देशे ‘ड्रोन’- इति प्रविधिना कृषि-रक्षा-आपत्प्रबन्धन -स्वास्थ्य-प्रभृतिषु क्षेत्रेषु अन्यतमं साहाय्यं प्राप्स्यते। श्री मोदी कथितवान् यत् देशः ड्रोन प्रौद्योगिक्याः प्रमुखकेन्द्रत्वेन भवितुं अर्हति। ड्रोन उद्योगस्यउत्कर्षेण वृत्यवसराः सर्जयिष्यन्ते ड्रोन प्रविधिमवलम्ब्य देशे महदुत्साहः अस्ति। अपारक्षमतान्वितः अस्ति भारतदेशः। प्रधानमंत्री नरेंद्र मोदी उक्तवान् यत्भारतं, जगति ड्रोन प्रौद्योगिक्याः प्रमुख केन्द्रत्वेन भवेत् तदर्थं द्रुतगत्या अग्रे वर्धमानम् अस्ति। प्रधानमंत्री उक्तवान् यत् केन्द्रं न्युनतमप्रशासनम् अथ अधिकतमं शासनमार्गं आश्रित्य जीवनं व्यापारं च सरलीकर्तुं ध्यानम् अवधारयति। श्री मोदी उक्तवान् यत् ड्रोनसमानम् एकम् स्मार्ट उपकरणं शीघ्रमेव नागरिकाणां जीवनांशत्वेन भविष्यति।
एतस्मिन् महोत्सवे नागर विमानन – मन्त्री ज्योतिरादित्य-सिन्धिया: अपि ड्रोन-प्रविधे: जागतिक-प्रभाव-विषये स्वविचारान् प्रकटितवान्। श्री सिंधिया उक्तवान् यत् अग्रिमे चतुर्वर्षावधौ ड्रोनउद्योगस्य व्यवसायः पंचदशकोटिरूप्यकं यावत् भविष्यति। ड्रोन महोत्सवे प्रधानमंत्री पंच कृषकैः ड्रोन संचालकैः समं वार्तां कृतवान्। गगने ड्रोन प्रदर्शनमपि अवलोकितवान्। अवसरे अस्मिन् स्वास्थ्यपरिवार कल्याण मंत्री मनसुख मंडाविया, रेल मंत्री अश्विनीवैष्णवः, कृषि मंत्री नरेंद्र सिंह तोमरः अथ केंद्रीय मंत्रिणः अन्ये गणमान्या चापि उपस्थिता आसन्। दिनद्वयात्मके अस्मिन् सम्मेलनेविभिन्नानाम् उपक्रमाणाम् षट् शताधिक प्रतिनिधयः भागं भजित्वान् ।