अंतर्राष्ट्रिय योगदिवसस्य अष्टमसंस्करणम् परिपाल्यते : प्रधानमन्त्री मैसूरनगरे योगकार्यक्रमस्य नेतृत्व करोति

प्रायशः सम्पूर्णे विश्वस्मिन् अशीति- आदर्शभूतेष स्थलेषु अद्य योगकार्यक्रमाणि समायोज्यन्ते

प्रधानमन्त्री नरेन्द्रमोदी मैसूरनगरे अन्ताराष्ट्रिययोगदिवसस्य आयोजनस्य नेतृत्वं विधास्यति। श्रीमोदिना योगदिवस्य परिपालनाय जना: आहूताः। सः योगस्य प्रचाराय अपि अभ्यर्थनाम् अकरोत्। अस्य वर्षस्य अन्ताराष्ट्रिय-योग-दिवसस्य ध्येयम अस्ति ‘मानवतायै योगः । योगदिवसः षड्विंशतिः जून अन्तार्राष्ट्रिय योगदिवसः अस्ति । ऐषम: योगदिवस: आजादी का अमृतमहोत्सव-वर्षे आयोज्यमानः अस्ति। अतः देशस्य पंचसप्तति आदर्श-परिपालकेषु स्थलेषु श्वः योगदिवसः आयोक्ष्यते, यत्र नैके केन्द्रीय-मन्त्रिणः सहभागितां करिष्यन्ति। अत्रान्तरे अनुरागसिंह ठाकुर: हिमाचलप्रदेशस्य नालागढस्थले योगकार्यक्रमे उपस्थास्यति तत्रैव धर्मेन्द्र प्रधानः कांगडादुर्गे एतदतिरिच्य अन्ये चापि केन्द्रीयमन्त्रिणः विभिन्नेषु त्रिसप्तति-आदर्श-स्थलेषु सहयोगं करिष्यन्ति। प्रधानमन्त्री/योगपुरस्कारः प्रचाराय अत्त्युत्तमरीत्या योगस्य निर्धारितस्य ‘प्रधानमन्त्री-योग-पुरस्कारस्य’घोषणा एकविंशत्युत्तरद्विसहस्रतम वर्षाय आयुषमन्त्रालयेन विहिता। यत्र द्वौ जनौ एक: लद्दाखतः अपरश्च ब्रालीजत: स्तः। तत्रैव द्वे संस्थे अपि स्त: एका उत्तराखण्डत: ‘द डिवाइन लाइफ सोसाइटी अपरा च ब्रिटिश-ह्वील ऑफ योगा’ इति ब्रिटेनदेशत:। आयुषमन्त्रालयेन उक्तम् यत् विजेतारः स्मृतिचिह्नेन सह प्रशस्तिपत्रं पंचविंशति-लक्षरूप्यकाणां धनराश्यात्मकमपि पुरस्कारं प्राप्स्यन्ति।