प्रधानमन्त्री नरेन्द्रमोदी भारतीय विज्ञान-संस्थाने सेंटर फॉर ब्रेन रिसर्च अथ सुपर कम्प्यूटिंग सुविधा इत्येतयोः उद्घाटनं कृतवान्

प्रधानमन्त्री नरेन्द्रमोदी गत सप्ताहे बेंगलूरु-स्थिते भारतीय विज्ञान-संस्थाने सेंटर फॉर ब्रेन रिसर्च अथ सुपर कम्प्यूटिंग सुविधा इत्येतयोः उद्घाटनं कृतवान्। बागची पार्थसारथीति-चिकित्सालयस्य निर्माणाय आधारशिलाम् अपि स्थापितवान् । अनन्तरं प्रधानमन्त्री तत्र बैंगलोर-विश्वविद्यालये डॉ. बी. आर. आम्बेडकर स्कूल ऑफ इकोनॉमिक परिसरे डॉ. बी. आर. आम्बेडकर- वर्यस्य प्रतिमाम् अपि अनावृतवान्। तत्रैव सः प्रौद्योगिक-केन्द्रत्वेन उत्कर्मितानि सार्धैक-शतं औद्योगिक-प्रशिक्षण संस्थानानि राष्ट्राय समर्पितवान्। ततः परं प्रधानमन्त्री बेंगलूरू-नगरस्य कोम्माघट्टा-स्थलं सम्प्राप्य जनसभामेकां सम्बोधितवान्। अत्रान्तरे श्रीमोदी दृश्य-श्रव्य-प्रणालिकया विभिन्नाः परियोजना: राष्ट्राय समर्पितवान्। एतासु परियोजनासु देशे प्रथमं तावत् निर्मितं वातानुकूलितं रेलस्थात्रम् अपि सम्मिलितम् अस्ति। एतदतिरिच्य कर्णाटके प्रधानमन्त्री बेंगलूरू-उपनगरीय रेलपरियोजनानाम् अथ षट् राष्ट्रिय-राजमार्ग-परियोजनानाम् आधारशिलां स्थापयिष्यति।