लोकसभायाः क्षेत्रत्रयाणां विधानसभायाश्च सप्त क्षेत्राणाम् औपनिर्वाचनिक-परिणामाः निर्वाचनायोगेन घोषितः

उत्तरप्रदेशे अनुष्ठिते लोकसभोपनिर्वाचने भाजपा दलं आसनद्वयं विजितवत्। रामपुरलोकसभा निर्वाचने भारतीय जनता पार्टी इत्यस्य प्रत्याशी धनश्याम सिंह लोधी: विजयं प्राप्तवान्, असौ समाजवादी दलस्य प्रत्याशिनं आसिम रजा इत्येनं पराजयत्। अपरत: आजमगढ-लोकसभा उपनिर्वाचने भाजपादलीय: दिनेश लाल यादव: “निरहुआ” इति विजयं प्राप्तवान्। पञ्जाबराज्ये संगरूर लोकसभा उप-निर्वाचने शिरोमणि अकाली दल-मान इति दलस्य प्रत्याशी सिमरन जीत सिंह मान विजयं प्राप्तवती । अवधेयास्पदं वर्तते यत् अचिरमेव प्राक् त्रिषु लोकसभा-आसनेषु, सप्त विधानसभा आसनेषु उपनिर्वाचनानि समनुष्ठितानि आसन्। त्रिपुरा-विधानसभाया: उपनिर्वाचने भारतीय जनता पार्टी इति दलं त्रीणि आसनानि कांग्रेस दलं च एकम् आसनं विजितवत्। तत्रत्य मुख्यमन्त्री मानिक साहा बारदोवाली राउन आसनं विजितवान्। दिल्ल्या: राजेन्द्रनगर उपनिर्वाचने आम-आदमी-पार्टीति दलं विजयं प्राप्तवत्। आन्ध्र-प्रदेशस्य आत्मकुर विधानसभोपनिर्वाचने वाईएसआर कांग्रेस दलं, झारखण्ड राज्ये विधानसभा-उपनिर्वाचने शासनाधिरूढा संयुति: विजयं अप्राप्नोत्। अस्य मासस्य त्रयोविंशति-दिनाङ्के पञ्जाब-उत्तरप्रदेश-त्रिपुरा-आन्ध्रप्रदेश-झारखण्ड-चेति राज्येषु दिल्ल्यां च मतदानम् अभवत्।