प्रधानमन्त्री नरेन्द्रमोदी जूनमासस्य त्रिन्शति-दिनाङ्के नवदिल्ल्यां उद्यमी भारत कार्यक्रमं सम्बोधितवान् । अत्रान्तरे तेन नैकासां योजनानां अथ कार्यक्रमाणां शुभारम्भं अपि कृतवान्। श्रीमोदी उक्तवान् यत् प्रशासनेन एम्एस्एमई इति सूक्ष्मलघुमध्यमोद्यमीक्षेत्रं सशक्तं कर्तुं सम्बद्धासु नीतिषु परिवर्तनं कृतम् अस्ति । एतदनु विगतानाम् अष्ट-वर्षाणाम् एतत् सम्बद्धे आयव्ययप्रपत्रके सार्ध-षट् शत-प्रतिशतात् अपि अधिका वृद्धिः कृता अस्ति । श्रीमता मोदिना कथितं यत् प्रशासनदृष्ट्या एम्एस्एमई इत्यस्य तात्पर्यं अधिकाधिकं सहायता प्रदानम् अस्ति आत्मनिर्भर-निधेः अन्तर्गतं सूक्ष्मलघुमध्यमोद्योगेभ्यः साम्प्रतं यावत् पंचाशत्-सहस्र-कोटि-रूप्यकाणि प्रदत्तानि प्रधानमन्त्रिणा कथितं यत् उद्यमिनः प्राशासनिक-वस्तु-आपूर्ति-कार्ये लग्ने जेम इति अन्तर्जाल-संकुले पंजीकरणं कारयन्तु अत्रान्तरे प्रधानमन्त्री वृत्यवसर-सृजन-कार्यक्रमस्य लाभार्थिभ्यः संगणकीय माध्यमेन सहायतां हस्तांतरितवान्। सममेव ऐषम: एम्एसएमई आइडिया हैक्थान् परिणामानां घोषणां कृतवान् । अन्य राष्ट्रिय एम्एस्एमई पुरस्काराः अपि तेन वितरिताः।











