राष्ट्रिय जनतान्त्रिक-संयुतेः राष्ट्रपतिपद-प्रत्याशी द्रौपदी मुर्मूः गत मासस्य चतुर्विन्शतितमे दिनाङ्के राष्ट्रपति-पदाय संसत्-भवनस्य परिसरे नामाङ्कनाय आवेदितवती। प्रधान मंत्री नरेंद्र मोदी, केंद्रिय मंत्री राजनाथ सिंहः, अमितशाहः, नितिनगडकरी, भाजपादलाध्यक्षः जे पी नड्डा भाजपादलेन एनडीएदलेन च शासितानां राज्याणां मुख्यमंत्रिणः अथ च एनडीएदलस्य सहयोगिनः मुर्मुवर्यायाः नामङ्कनावधी उपस्थिताः आसन्। मुर्मूवर्या नामांकनपत्रस्य चतस्रः प्रतिलिपयः प्रस्तुतवती । नामांकन-पत्रस्य प्रथमप्रतिलिप्या प्रधानमन्त्री नरेन्द्र मोदी अमितशाहः च प्रस्तावकरूपेण हस्ताक्षरं कृतवन्तौ अथ च अन्यासु प्रतिलिपिषु केन्द्रिय मंत्री राजनाथ सिंहः भाजपादलाध्यक्षः जे पी नड्डा च प्रस्तावकरूपेण हस्ताक्षरं कृतवन्तौ । द्रौपदी मुर्मू नवदिल्ल्यां प्रधानमन्त्रिणं नरेन्द्रमोदिनं, उपराष्ट्रपति एम्. वैंकेया नायडूं, गृहमन्त्रिणं अमितशाहं, रक्षामन्त्रिणं राजनाथसिंह, भाजपाध्यक्षजेपी नड्डा च समेत्य शासनाधिरूढ दलस्य अन्यैः शीर्षनेतृभिः साकं मेलनं कृतवती। एकस्मिन् ट्वीट- सन्देशे प्रधानमन्त्री नरेन्द्रमोदी उक्तवान् यत् सुश्रीः मुर्मू इत्यस्याः राष्ट्रपतिपदस्य नामाङ्कनं सम्पूर्ण-भारते समाजस्य सर्वविधवर्णै: प्रशंसितम्। श्रीमोदी उक्तवान् यत द्रौपदी मुर्मू: आधारभूत समस्याः सम्यक्तया जानाति, भारतस्य विकासाय तस्याः उत्कृष्ट दृष्टिकोणः अस्ति । बहुजन समाज-पार्टी इति दलं ऐषम: राष्ट्रपति-पदनिर्वाचने द्रौपदी मुर्मू: इत्यस्मै स्वीयं समर्थनं उदघोषयत्। वार्ताहरान् सम्बोधयन् बहुजन समाज पार्टीति दल-प्रमुखा सुश्री मायावती उक्तवती यत् आदिवासी समुदाय: दलस्य आन्दोलने महत्वपूर्ण भूमिकां न्यभालयत्। सा उक्तवती यत् अस्मदीयं दलं आगामी राष्ट्रपति निर्वाचने द्रौपदी-मुर्मू: इत्यस्या: समर्थनं करोति न खलु भाजपा दलस्य राष्ट्रिय जनतान्त्रिक-संयुतेः वा । बहुजन समाजवादी पार्टीति इति दलं जनजातीय समाजस्य सक्षमा परिश्रमी महिलां देशस्य राष्ट्रपति रूपेण चेतुं निर्णातम् अस्ति। शिरोमणि-अकाली-दल इतिदलेनश्रीमत्याः मुर्मूवर्यायाः राष्ट्रपतित्वेन चयनाय सहमतिः प्रदत्ता।
अपरत: विपक्षिदलानां राष्ट्रपतिपदस्य प्रत्याशित्वेन यशवंत सिन्हा जूनमासस्य सप्तविंशति- दिनाङ्के राष्ट्रपति-पदाय नामाङ्कनपत्रं पूरितवान् । विपक्षिदलानां राष्ट्रपतिपदस्य प्रत्याशित्वेन यशवंत सिन्हा अद्य नामाङ्कनपत्रं पूरितवान् । श्री सिन्हासमं कांग्रेसदलस्य राहुल गांधी,राष्ट्रवादिकांग्रेसदलप्रमुखः शरद पवार:, समाजवादी पार्टीति दलस्य अखिलेश यादव:, राष्ट्रीयसम्मेलनस्य फारूक अब्दुल्ला, तृणमूलकांग्रेसस्य अभिषेकः बनर्जी, टीआरएसदलस्य के के.टी. रामा रावः डीएमके इत्यस्य ए राजा, मार्क्सवादी कम्युनिस्ट पार्टीति दलस्य सीताराम येचुरीसहिताः विपक्षीदलानां नैके नेतारः समुपस्थिताः आसन् ।
मतदान जुलाई-मासस्य अष्टादशतमे दिनाङ्के भविष्यति अपि च जुलाई-मासस्य एकविंशतितमे दिनाङ्के मतगणना भविष्यति।











