अस्य मासस्य षट् दिनाङ्के डॉ. श्यामा-प्रसाद मुखर्जी-वर्यस्य एकविंशत्युत्तर- एकशततमः जन्मोत्सवः आसीत् । अस्मिन् अवसरे उपराष्ट्रपतिः श्रीवेंकैयानायडुः, प्रधानमन्त्री श्रीनरेन्द्रमोदी भाजपा दलस्य राष्ट्राध्यक्ष: श्री जे. पी. नड्डा लोकसभाध्यक्षः श्रीमान् ओम्-बिरला अथ अन्ये च जनसंघस्य संस्थापकाय श्यामाप्रसादमुखर्जिने श्रद्धांजलिं समर्पितवन्तः । ट्वीट् सन्देशे उपराष्ट्रपतिः श्रीनायडुः उक्तवान् यत् डॉ. मुखर्जी समर्थ-राजनेता, दूरदर्शी- विचारकः, विख्यात शिक्षाविद्द्महान् राष्ट्रवादी च आसीत्। श्रीमोदिना उक्तं यत् भारतस्य विकासे वाणिज्योद्योग क्षेत्रे च तस्य महद् योगदानम् अस्ति । भारतीयजनतापार्टिति दलस्य राष्ट्राध्यक्षः जगतप्रकाशनड्डा श्यामाप्रसादमुखर्जीवर्यस्य नीतिनां प्रशंसां कृतवान्।











