उज्जयिनीस्थ पाणिनिसंस्कृतवैदिकविश्वविद्यालये राष्ट्रियाशोधसङ्गोष्ठी आयोजिता

वार्ता संयोजकः डॉ. दिनेश चौबे, प्रेषिका च डॉ. एस्. टी. पी. कनकवल्ली

महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालये गुरुपर्वणि “गुरुशिष्यपरम्परायाः प्रासङ्गिकता” इति विषयाधारिता एकदिवसीया राष्ट्रियाशोधसङ्गोष्ठी आयोजिता।
महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य शिक्षाशास्त्रविभागः, त्रिवेणीकलापुरातत्वसंग्राहालयः उज्जयिनी इत्यनयोः संयुक्ततत्वावधाने गुरुपुर्णिमायाः उपलक्ष्ये त्रिवेणीसंग्रहालयस्य सभागारे १२/०७/२०२२ तमे दिनाङ्के सङ्गोष्ठिरियम् आयोजिता।
कार्यक्रमस्य अध्यक्षता महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य कुलपतयः आचार्याः विजयकुमारमेननमहोदयैः निर्वहत्। सारस्वतातिथिरूपेण आचार्याः रविशंकरमेननवर्याः, पूर्वकुलसचिवः, राष्ट्रियसंस्कृतविद्यापीठं, तिरुपतिः, मुख्यातिथिरूपेण आचार्याः
चाँदकिरणसलूजा महोदयाः, संस्कृतसंवर्द्धनप्रतिष्ठानं, नवदेहली च आसन्।
कार्यक्रमस्य शुभारम्भः वाग्देव्याः सरस्वत्याः समर्चनेन दीपप्रज्वालनेन च जातः। तदनु गुरुस्त्रोत्रस्य पाठः एवञ्च विश्वविद्यालयस्य कुलगानं छात्रैः प्रस्तुतम् अतिथिनां वाग्पुष्पैः उत्तरीयवस्त्रप्रदानेन, पुष्पमालया च । स्वागतं त्रिवेणीसंग्रहालयस्य प्रबन्धिका डॉ. भावनाव्यास महोदया द्वारा जातम्। सङ्गोष्ठयाः प्रास्ताविकं भाषणं सङ्गोष्ठी संयोजकैः डॉ. शुभमशर्ममहोदयैः प्रस्तुतम्। मुख्यातिथिमहोदयैः स्वभाषणे उक्तं यत् – ‘गुरुशिष्यपरम्परा अनादिकालादेव अस्माकं संस्कृतिं संरक्षयति। सारस्वतिथिमहोदयैः गुरुशिष्यस्य सम्बन्धविषये आदिकालादारभ्य अद्यावधि पर्यन्तं गुरुतत्वं प्रकाशितम्’। अध्यक्षमहोदयैः उक्तं यत् – ‘शिष्यस्य सार्वभौमिकं विकासः गुरुः एव करोति गुरूणां मौन-व्याख्यानेन एव शिष्यस्य सर्वाणि संशयानि विनष्टि भवन्ति’। सङ्गोष्ठयां मुख्यवक्तृरूपेण आचार्याः बालकृष्णशर्ममहोदयाः कुलपतिचराः, विक्रमविश्वविद्यालयः, डॉ. शैलेन्द्रकुमारशर्ममहोदयाः, कुलानुशासकाः विक्रमविश्वविद्यालयः, उज्जयिनी उपस्थितौ च आस्ताम्। कार्यक्रमस्य संचालनं डॉ. शैलेन्द्रकुमारपाण्डेयमहोदयेन कृतम्।
धन्यवादसमर्पणं साहित्यविभागाध्यक्षैः डॉ. तुलसीदासपरौहामहोदयैः कृतम्। सायंकाले प्रसिद्धगीतगायिका सुश्री सूर्यागायत्री, केरल इत्यस्या, विश्वविद्यालयस्य छात्राणां च सांस्कृतिक प्रस्तुतयः संजाता। अवसरेऽस्मिन् विश्वविद्यालयस्य कुलसचिवाः डॉ. दिलीपसोनीमहोदयाः, सर्वे विभागाध्यक्षाः, प्राध्यापकाः, छात्राः, सामाजिकश्च उपस्थिताः आसन्।