घनागमः कामिजन-प्रियः प्रिये

मार्कण्डेय शारदेयः (पटना, बिहारस्थः)

कालिदासः प्रातिभः कविः। सः मानवस्य अन्तर्बाह्य- प्रकृतेः विशेषज्ञः तु अस्ति एव, चराचराणां प्रकृत्याः अपि न न्यूनज्ञः। अतः सः प्रकृतिसिद्धः कविमुख्यः। तस्य काव्येषु प्रकृतिलीला हृद्या। विक्रमोर्वशीयस्य एकेन चित्रेण वर्षाकालस्य राजोपचारः विशेषेण दर्शनीयः-
‘विद्युल्लेखा- कनक-रुचिरं श्रीवितानं ममाभ्रं
व्याधूयन्ते निचुल-तरुभिः मञ्जरी-चामराणि।
घर्मच्छेदात्पटुतरगिरो बन्दिनो नीलकण्ठा
धारासारोपनयनपरा नैगमाः चाम्बुवाहाः
’।।
अयं श्लोकः एकं निदर्शनम् एव। तस्य काव्येषु असंख्याः एतादृशाः मनोहराः प्रयोगाः। परन्तु; तस्य अमरकृतिषु ‘ऋतुसंहारः’ केवलं ऋतुवर्णनेन मनः हरति। कथायाः अभावेऽपि प्रिया-सम्बोधिता कव्युक्तयः सर्वेषाम् ऋतूनां वैशिष्ट्यं पुरस्कुर्वन्ति।ग्रीष्मतः वसन्तं यावत् षडृतूनां वर्णने कवेः अंगुलीं धृत्वा चलन्ती प्रतिभाति प्रकृतिः। ‘मधुरेण समापयेत्’ इति भावनया कविना मधुना काव्यं पूर्णीकृतम्।
‘ऋतुसंहारम्’ पुरुषार्तिः। नात्र पुरुषः परुषः। सः सहृदयः एव।सम्भवतः शृङ्गारस्य मधुमयलेपेन पुरुषो स्त्रीयायते। स्वयं साहित्यम् अपि प्रिया-सम्मितम् एव मन्यते। तु; पुरुषः परुषः कथं स्यात्! अस्तु; प्रियां सम्बोधितस्य अस्य काव्यस्य द्वितीये सर्गे वर्षर्तुः वर्णितः। कविः प्रथमम् एव राजकीयेन सम्मानेन सह कामिजनस्य प्रियं वर्षर्तुं सादरं स्वागतं कुर्वन् कथयति-
‘ससीकराम्भोधर- मत्तकुञ्जरः
तडित्पताकोऽशनि- शब्दमर्दलः।
समागतो राजवदुद्धत- द्युतिः
घनागमः कामिजन-प्रियः प्रिये
’।। (2.1)
अत्र न केवलं प्रावृषः मानवीकरण्, अपितु राजीकरणम् अपि कविना कृतम्। अस्तु; यदि अयं कालः एव राजा अस्तु, तु कः राजसः परिवेषः? उत्तरपक्षे अम्बुधरः कृष्णः मेघः एव तस्य मदमत्तः गजः। विद्युतः एव तस्य पताकाः। वज्रनिर्घोषः एव जयघोषः। अनेन प्रकारेण सः गजस्थः, गजवाहनो वर्षाकालः राजीयते।
अयं कालः प्रकृतेः शोभां तु वर्धयते एव प्रवासिनां प्रोषित-पतिकानां च कृते विशेषः पीडाकरः। आशयोऽयं प्रावृट्कालः न वियोगिनाम् अपितु संयोगिनाम् एव सन्मित्रम्।वियोगिनां विहानले घृतम् एव दीयते अनेन। प्रिय-मेलनस्य प्रिया-मेलनस्य वा उत्कण्ठाम् एव जनयति। अतः वर्षाजलैः आर्द्राणां पुष्पितानां कदम्बादीनां गन्धं वहन् वायुः व्याकुलीकरोति।कवेः उक्त्याम्-
‘कदम्ब-सर्जार्जुन- केतकीवनं
विकम्पयन् तत्कुसुमाधिवासितः।
ससीकराम्भोधर- सङ्गशीतलः
समीरणः कं न करोति सोत्सुकम्
’।। (2.18)
कविः रात्रौ मेघाच्छन्ने आकाशे गर्जतां घनानाम् अन्तः इतस्ततः चकासन्तीं सौदामिनीं विलोक्य अभिसारिकां दामिनीम् अनुमीयते। सः मनुते यत् कामातुरा कापि नारी विद्युता मार्गम् अन्वेषयन्ती प्रियं प्रति गच्छति। एतादृश्यः बहवः अभिसारिकाः। अतः कव्युक्तिः-
‘अभीक्ष्णमुच्चैः ध्वनता पयोमुचा
घनान्धकारीकृत- शर्वरीष्वपि।
तडित्प्रभा- दर्शित- मार्गभूमयः
प्रयान्ति रागात् अभिसारिका स्त्रियः
’।।(2.10)
कविवरः कालिदासः न केवलं वर्षर्तोः विभवैः उद्दीप्तानां प्रवासिनां पुरुषाणाम् अन्तःस्थितिं प्रदर्शयति, अपितु प्रोषित-भर्तृकाणाम् अपि दशां दर्शयति। वर्षाकाले प्रवासिषु केन प्रकारेण उद्दीपनं जनयति; कविः कथयति-
‘नवजलकण- सङ्गात् शीतताम् आदधानः
कुसुमभर- नतानां लासकः पादपानाम्।
जनित- रुचिर- गन्धः केतकीनां रजोभिः
परिहरति नभस्वान् प्रोषितानां मनांसि
’।(2.26)
कामिन्यः का स्थितिः! तु; एतस्मिन् कवित्वे निरीक्षणीया-
‘विलोचनेन्दीवर- वारिबिन्दुभिः
निषिक्त- बिम्बाधर- चारुपल्लवाः।
निरस्त- माल्याभरणानुलेपनाः
स्थिता निराशाः प्रमदा प्रवासिनाम्
’।। (2.12)
कविः न केवलं वियोगम् एव प्रस्तौति, अपितु संयोगम् अपि।अतः एकस्मिन् एतादृशं चित्रं द्रष्टव्यम्, यस्मिन् सुसज्जिता काचित् कामिनी सायं श्वसुरगृहात्, अर्थात् गृहकार्यं कृत्वा, श्वसुरादीनां च भोजनादि-सेवां समर्प्य शय्यागृहम्, अर्थात् वासगृहम्, यत्र शून्ये सा पत्या सह क्रीडति, स्वपित च, तत्र गच्छति-
‘कालागुरु- प्रचुर- चन्दन-चर्चिताङ्ग्यः
पुष्पावतंस- सुरभीकृत- केशपाशाः।
श्रुत्वा ध्वनिं जलमुचां त्वरितं प्रदोषे
शय्यागृहं गुरुगृहात् प्रविशन्ति नार्यः
’।।(2.21)
कदाचित् कामवशात् चपला-पयोधरयोः घोररवेण भीतायाः रमण्याः वा एषा स्थितिः अपि दृश्यते यत् केनचित् कारणेन रुष्टा अपि पत्युः अपराधं विस्मृत्य तस्य आलिङ्गने मानं त्यक्त्वा गच्छति-
‘पयोधरैः भीम- गभीर- निःस्वनैः
तडिद्भिरुद्वेजित- चेतसी भृशम्।
कृतापराधान् अपि योषितः प्रियान्
परिष्वजन्ते शयने निरन्तरम्
’।। (2.11)
वस्तुतः कविः वर्षाकालिकानि सर्वाणि चित्राणि, चराचराणां कृत्यानि च संगृह्य ऋतुसंहारस्य अस्मिन् सर्गे रसिकान् रसम् आस्वादयति। कविः ‘शिवेतरक्षतये’ इत्यस्य अपि पक्षधरः। अतः अष्टाविंशतिभिः श्लोकैः निबद्धे अस्मिन् सर्गे मङ्गलात्मकं समाप्तीकरणे सः कथयति-
‘बहुगुण- रमणीयः कामिनी- चित्तहारी
तरु- विटप- लतानां बान्धवो निर्विकारः।
जलद-समय एष प्राणिनां प्राणभूतो
दिशतु तव हितानि प्रायशो वाञ्छितानि
’।। (2.28)