मार्कण्डेय शारदेयः (पटना, बिहारस्थः)
इदानीं देशस्य विषमा परिस्थितिः। क्वचित् अतिवृष्टिः तु क्वचित् अनावृष्टिः। अनेन महती क्षतिः। अस्माकं देशः कृषि-प्रधानः नदीमातृकः देवमातृकश्च प्रायः। अत्र समयोचिता वृष्टिः आवश्यकी।वैपरीत्ये तपस्विनां कृषकाणां सुखस्वप्नं भग्नं भवति। ते अतिपरिश्रमेण आत्मनः, परिवारस्य, राष्ट्रस्य च कृते अहोरात्रं कृषौ संलग्नाः सन्ति।यथासमयं क्षेत्रं कर्षन्ति, बीजं वपन्ति, सिञ्चन्ति, उर्वरकैः, कीटनाशकैः औषधैः पोषयन्ति, पालयन्ति च। किन्तु, वर्षाभावे अथवा अतिवर्षया उप्तं नष्टं भवति, तदा तेषां कष्टं वर्णनातीतं भवति।
वस्तुतः प्राकृतिकेन प्रकोपेन एव एतादृशं भवति। अस्य कारणं मुख्यतया अस्माकम् एव कृतिः। जनसंख्यायाः वृद्धिः, वन-पर्वतानां नाशनं नव-नवानां रासायनिकानाम् उत्सर्गः, प्रकृति-विरुद्धानाम् कृत्रिम-साधनानाम् अत्युपभोगः, प्रदूषणानाम् अनियन्त्रणं च मुख्यानि कारणानि। प्राकृतिक-सम्पदायाः दोहनम् एव दोहनम्; पर्यावरण-सुरक्षां प्रति न कर्तव्यनिष्ठा।प्राचीने काले नैषा दुःस्थिति। यदि आसीत् अपि तु न एतादृशी।
महर्षेः वाल्मीकेः कालं पश्यामः तु तस्मिन् समयेऽपि विकसितं जीवनं दृश्यते। अयोध्यायाः वर्णने कविः कथयति-
‘कपाट- तोरणवतीं सुविभक्तान्तरापणम्।
सर्वयन्त्रायुधवतीम् उषितां सर्वशिल्पिभिः।।
सूत-मागध- सम् बाधां श्रीमतीम् अतुल-प्रभाम्।
उच्चाटाल- ध्वजवतीं शतघ्नी- शतसंकुलाम्’।। (1.5.10-11)
एतावतापि तन्नगरं विविधैः वृक्षैः शोभितम्। आशयोऽयं विकासेन सह पर्यावरणस्य सुरक्षा नितराम् अनिवार्या। अनेन सदाचारेण यथाकालं सम्यक् वृष्टिः, सम्यक् उष्णता, सम्यक् शैत्यं च समागत्य पारिस्थितिकीं सुखं दास्यन्ति। पारिस्थितिक्या मानवाः मानवेतराश्च चराचराः प्राणिनः आत्मरक्षणं विस्तारं च प्राप्तुं समर्थाः भविष्यन्ति।
अस्तु; वर्षर्तुः सर्वेषां कृते अत्युपयोगी। अस्मिन् भूतं वर्षाजलम् अन्तःसंरक्ष्य धरती वर्षं यावत् यथाशक्ति वनस्पतीनां पालयति पोषयति प्राणिनं रक्षति च। अयं ऋतुः यदा आगच्छति तदा आकाशे मेघाः तम् आच्छाद्य नाना लीलां दर्शयन्ति, क्रीडन्ति, नृत्यन्ति, हसन्ति, गर्जन्ति, प्रेयस्या सौदामिन्या सह प्रेमालिङ्गनं कुर्वन्ति च। अतः कामिनां कृते शृङ्गार-रूपं मादकं रसं वितरति।अनेन संयोगिनः सुखं लभन्ते तु वियोगिनः विरहवेदनाम्। सीता-विरहितो रामोऽपि वर्षाकालिकेन कामजन्येन पीडनेन न वञ्चितः। किष्किन्धा-काण्डे प्रस्रवण-पर्वते वसन् रामः लक्ष्मणं हृदयोद्गारं प्रकटयति।षट्षष्टिषु श्लोकेषु निबद्धं वर्षावर्णनम् अत्यधिकं हृद्यम्।
कवेः श्रीराममतेन वर्षाजलं न सामान्यं वारि, अपितु रसायनम्।अस्य रासायिनिकी क्रिया कार्तिकमासतः आषाढं यावत् सूर्यकिरणैः गृहीतं जलम् आकाश-रूपिण्याः युवत्याः गर्भे स्थापयति, अनन्तरं वर्षाकाले तत् प्रसूते।एतत्सम्बन्धिनं कवित्वं दर्शनीयम्-
‘नवमास-धृतं गर्भं भास्करस्य गभस्तिभिः।
पीत्वा रसं समुद्राणां द्यौः प्रसूते रसायनम्’।।(4.28.3)
वर्षर्तौ आकाशस्य एकम् अद्भुतं चित्रं द्रष्टव्यम्-
‘क्वचित् प्रकाशं क्वचिदप्रकाशं
नभः प्रकीर्णाम्बुधरं विभाति।
क्वचित् क्वचित् पर्वत- सन्निरुद्धं
रूपं यथा शान्त- महार्णवस्य’।।(4.28.17)
आशयोऽयम्, गगने घनाः इतस्ततः विद्यमानाः। क्वचित् मेघाच्छन्नः आकाशः अदृश्यः अन्धकारः च प्रसृतः। क्वचित् छिन्नैः भिन्नैः अम्बुदैः सूर्य-चन्द्रमसोः प्रकाशः हसितः।इदं दृश्यं तथैव प्रतिभाति यथा तरङ्गैः शान्तः सागरः, उत्थितैः वीचिभिः पर्वतशिखराः।अत्र सागरोऽपि पर्वतायते, पर्वतोऽपि सागरायते च।
प्रातः सायं च काले आकाशः रक्तिमः भवति। सूर्यास्त- समये पश्चिमे क्षितिजे व्याप्तौ श्वेतेषु मेघेषु कवेः कल्पना कीदृशी; दर्शनीया। तन्मते आकाशः व्रणयुक्तः। यस्मिन् अङ्गे व्रणः, तस्मात् रक्तस्रावः भवति। तत्र मेघावृतिः श्वेत-पट्टिका इव प्रतिभाति। तदात्मकं चित्रम् इदम्-
‘सन्ध्या- रागोत्थितैः ताम्रैः अन्तेष्वपि च पाण्डुभिः।
स्निग्धैः अभ्रपटच्छेदैः बद्धव्रणम् इवाम्बरम्’।।(4.28.5)
वर्षया ग्रीष्मतप्ता मही शीतला भवति। तदा वायुः अपि सुखकरः भवति। एतद्भावं संयोज्य कवेः उक्तिः-
‘मेघोदर- विनिर्मुक्ताः कर्पूरदल- शीतलाः।
शक्या अञ्जलिभिः पातुम् वाताः केतक-गन्धिनः’।।(4.28.8)
सम्भवतः श्रीरामवासस्थाने केतकीवनम् आसीत्। तस्य एव गन्धः घ्राणे प्रविशति स्म, तेन वाताः केतक-गन्धिनः इति प्रयुक्तम्।अस्तु; प्रस्रवणे विद्यमानानां वृक्षाणाम् अपि वर्षासु कः प्रभावः; इत्यस्य अपि उल्लेखः कृतः। अस्मिन् प्रसङ्गे प्रफुल्लितानां फलितानां च सुगन्ध-प्रसारकाणाम् अर्जुन- केतक- कुटज- जम्बुफल- रसाल- कदम्ब- सर्ज- मालती- स्थलकमलादीनां मनोहरं चित्रणं दृश्यते। अनेनैव प्रकारेण वन्यानां प्राणिनाम्- मृगेन्द्र- गज- गो-गवेन्द्र- वानर- मयूर- हंस- बक- चातक- चक्रवाक- भ्रमर- इन्द्रगोपादीनाम् अपि सरसं वर्णनं विद्यते। कवेः वन्यप्राणिनः प्रति वर्षाकालिकी दृष्टिः अनयोः श्लोकयोः विशिष्यते-
‘क्वचित् प्रगीता इव षट्पदौघैः
क्वचित् प्रनृत्ता इव नीलकण्ठैः।
क्वचित् प्रमत्ता इव वारणेन्द्रैः
विभान्त्यनेकाश्रयिणो वनान्ताः’।।(4.28.33)
पुनश्च,
‘क्वचित् प्रनृत्तैः क्वचिदुन्नदद्भिः
क्वचित् च वृक्षाग्र- निषण्ण-कायैः।
व्यालम्बबर्हाभरणैः मयूरैः
वनेषु सङ्गीतमिव प्रवृत्तम्’।।(4.28.37)
कवेः वर्णनं संस्मृत्य एवम् अनुभूयते यत् स चलचित्रम् एव दर्शयति।
‘मत्ता गजेन्द्रा मुदिता गवेन्द्रा
वनेषु विक्रान्ततरा मृगेन्द्राः।
रम्या नगेन्द्रा निभृता नरेन्द्रा
प्रक्रीडितो वारिधरैः सुरेन्द्रः’।।(4.28.42)
इत्थम् एकैकं ऋतुजन्यं प्रभावं दृष्ट्वा अनुभूय च प्रियावियुक्तः पुरुषर्षभः दाशरथिः कथं न उद्दीप्तः स्यात्! अनेन कामार्तः स स्वानुजं लक्ष्मणं प्रति कविव्याजेन मनोभावं प्रकटयति।अनेन कारणेन राघवः कथयति-
‘क्वचित् बाष्पाभिसंरुद्धान् वर्षागम-समुत्सुकान्।
कुटजान् पश्य सौमित्रे पुष्पितान् गिरिसानुषु।
मम शोकाभिभूतस्य काम-सन्दीपनान् स्थितान्’।।(4.28.14)
प्रथमं पुष्पितान् कुटजान् विलोक्य श्रीरामस्य अन्तःस्था पीडा प्रस्फुटिता।पश्चात् वर्षावर्णनस्य क्रमेण एकैकं चराचराणां क्रीडां लीलां वा विलोगक्य विरहाग्नौ ज्वलन् प्रतिभाति। समुद्रं गम्यमानाः नद्यः अभिसारिका- नायिकावत् राममनः सीदन्ति।अतः कथयति-
‘नद्यः समुद्वाहित- चक्रवाकाः
तटानि शीर्णान्यपवाहयित्वा।
दृप्ता नवप्रावृतपूर्ण- भोगात्
ऋतं स्वभर्तारमुपोपयान्ति’।।(4.28.39)
पुनश्च; आकाशे एकः मेघखण्डः द्वितीयेन मिलति। इत्थं विलोक्य रामः मनुते यत् विरहदग्धाः नीलाः मेघाः परस्परम् आलिङ्गयन्ति। एतादृशं विरह-विदग्धस्य राघवस्य कारुणिकः स्वरः श्रवणीयः-
‘नीलेषु नीला नववारिपूर्णा
मेघेषु मेघाः प्रतिभान्ति सक्ताः।
दावाग्नि-दग्धेषु दवाग्नि-दग्धाः
शैलेषु शैला इव बद्धमूलाः’।।(4.28.40)
वस्तुतः वर्षावर्णने कविना मिषेण राघवात् जातस्य विरह-शृंगारस्य प्रस्तुतीकृतम्। विप्रलम्भे भोजराजस्य इयम् उक्तिः दर्शनीया, या वियोगं लक्ष्यीकरोति-
‘भावो यदा रतिः नाम प्रकर्षम् अधिगच्छति।
नाधिगच्छति चाभीष्टं विप्रलम्भः तदुच्यते’।।(सरस्वती- कण्ठाभरणम्-5.45)
राघवस्य अभीष्टा सीतया संयोगः।तं संयोगं सः न अधिगच्छति। तेन तस्य हृदये रतिसंज्ञकः यः भावः उत्पन्नः, सः प्रवासजन्यः वियोगरसः एव।











