नष्टः पिष्टघटः (पञ्च्तन्त्र बाल कथा )

कस्मिंश्चिन् नगरे कश्चित् स्वभाव-कृपणो नाम ब्राह्मणः प्रतिवसति स्म । सः भिक्षाटनेन जीवनं करोति स्म । कदाचित् सः पिष्टेन पूर्णम् एकं घटं प्राप्तवान् । तं घटं नागदन्ते अवलम्ब्य तस्य अधः उपविश्य सः एकदृष्ट्या घटमेव पश्यति स्म ।
एकदा रात्रौ सः चिन्तितवान्- ‘यदि देशे दुर्भिक्षः ‘भवेत् तर्हि एतस्य शतरूप्यकाणां मूल्यं भवेत् । तदा अहम् एतत् विक्रीय तेन धनेन अजद्वयं क्रेष्यामि । कालान्तरे तेन अजसमूहः एव भविष्यति । अनन्तरम् अजसमूहं विक्रीय धेनूः क्रेष्यामि । अनन्तरं ताः विक्रीय महिषीः, ताः विक्रीय अश्वान् च क्रेष्यामि । तान् अपि विक्रीय यथेष्टं धनं सम्पादयिष्यामि । बृहत् गृहं निर्मापयिष्यामि तदा कश्चित् ब्राह्मणः आगत्य रूपवर्ती स्वकन्यां मह्यं दास्यति । तत्-सकाशात् पुत्रो मे भविष्यति । अनन्तरं मम पुत्रः जनिष्यते देवशर्मा इति तस्य नामकरणं करिष्यामि । यदा सः जानुभ्यां चलितुं समर्थः भविष्यति तदा अहम् अश्वशालायां पुस्तकं पठिष्यामि तदा देवशर्मा जानुभ्यां चलन् मम समीपम् आगन्तुम् उद्युक्तः भविष्यति तदा तं बालं ग्रहीतुं तस्य मातरम् आज्ञापयिष्यामि । यदा सा मम वचनं न श्रोष्यति तदा अहं कोपेन पादप्रहारेण तां दण्डयिष्यामि’ इति ।
एवं चिन्तयन् सः पादप्रहारं कृतवान् एव पिष्टेन पूर्णः घटः पतितः, भग्नः च ।
अनागतवतीं चिन्ताम् असम्भाव्यां करोति यः । स एव पाण्डुरः शेते देवशर्मपिता यथा ।। सुवर्णसिद्धिर् आह-एवम् एतत्। कस् ते दोषः, यतः सर्वोऽपि लोभेन विडंबितो बाध्यते? उक्तं च-

यो लौल्यात् कुरुते कर्म नैवोदर्कम् अवेक्षते।
विडंबनाम् अवाप्नोति स यथा चंद्र-भूपतिः॥
पञ्च_५.६९॥