लखनऊ-परिसरे प्रति गृहं राष्ट्रीयध्वजकार्यक्रमस्य जागरणाय अनुष्ठितासंस्कृतरथयात्रा

संवादकः-प्रवेशकुमारशुक्ल, शिक्षाशास्त्र विभाग

केन्द्रीयसंस्कृतविश्वविद्यालयस्य लखनऊपरिसरेण ऐषमोऽगस्तमासस्य 08 दिनाङ्कात् 14 दिनाङ्कं यावत्संस्कृतसप्ताहमहोत्सवः समाचर्यते। अस्य महोत्सवस्य सातत्ये ‘अमृतभारतीवैभवोत्सवाङ्गतया’ परिसरेऽस्मिन् 10.08.2022 तमे दिनाङ्के उत्तरप्रदेशस्य राजधानीक्षेत्रे सांस्कृतिकपुरे च लखनऊनगरे ‘संस्कृतस्य प्रचाराय’ ‘प्रति गृहं ध्वजवन्दनस्य प्रसाराय च’ संस्कृतरथयात्रा समायोजिता।
रथयात्राप्रारम्भात् प्राक् परिसरनिदेशकः प्रो. सर्वनारायणझामहोदयः राष्ट्रध्वजं प्रदर्श्य अस्याः यात्रायाः आरम्भमकरोत्। अस्याः संस्कृतरथयात्रायाः कुशलनेतृत्वं परिसरीयशिक्षाशास्त्रविभागस्य सहाचार्यो डा. गणेशशङ्करविद्यार्थिमहोदयोऽकरोत्। रथयात्रायाः सर्वविधं प्रबन्धनं सहायकनिर्देशनं च परिसरीयो वेदविभागीयप्राध्यापको डॉ. प्रदीपकुमारदीक्षितोऽकरोत्। अवसरेऽस्मिन् परिसरीयाचार्याः छात्राः हेमंतकिशोरशर्मा, विष्णु, भवनेश, मोहित कपिल, प्रवेशकुमारशुक्ल, धनंजयपाण्डेय संस्कृतप्रेमिणो नागरिकाश्च सोत्साहमुपस्थिता आसन्।
अस्याः रथयात्रायाः समारम्भः परिसरात् जातः। गोमतीनगरस्य प्रमुखेषु स्थानेषु गच्छन्तीयं रथयात्रा हर्षोल्लासेन जनसमर्थनेन च सह पुनरपि परिसर एव सुसम्पन्ना। रथयात्रासमाप्तौ परिसरनिदेशकः प्रो. सर्वनारायणझावर्यः स्वीये समुद्बोधने ‘संस्कृतस्य पुराकालात् साम्प्रतं यावत् लोकजीवनेन सह सम्बद्धतां’ प्राकाशयत्। विशेषतोऽसौ स्वभाषणे संस्कृताय लब्धस्य जनसमर्थनस्य चर्चामपि विशेषरूपेणात्राकरोत्। रथयात्रया सह परिसरीयाः प्राध्यापकाः, कर्मचारिणः, छात्र-छात्र्यश्च उल्लासमये वातावरणे संस्कृतोपादेयतासम्बद्धानि उद्धरणानि लोके प्रसारयन्तः प्रकाशयन्तश्च अग्रे सरन्तः आसन्।
नूनं दृश्यमिदमत्यन्तं रमणीयमासीत्। स्वतन्त्रतायाः 75तमस्य वर्षस्य स्मरणे आयोजितस्यामृतमहोत्सवस्य सम्मानार्थं ‘प्रति गृहं तिरंगा-ध्वजवन्दनम्’ इत्यस्य कार्यक्रमस्यानुपालने तिरंगाध्वजैः सह सर्वेषामुपस्थितानामिदं दृश्यमितोऽपि आकर्षकं प्रतीयते स्म। इत्येवं दृश्यमिदं तावद् राष्ट्रं प्रति समर्पणभावं, प्रगतिसूचकं साम्प्रदायिकैक्यं च सूचयति स्म।
संस्कृतस्य व्यापकं प्रयोगं कर्तुं स्थाने-स्थाने परिसरीयाः प्राध्यापकाः विविधान् संस्कृतोद्धरणप्रयोगान् अकुर्वन्।
‘संस्कृतस्य व्यापको प्रचारः प्रसारश्च स्यादि’ति इमे नागरिकैः सह सम्पर्कं कृत्वाऽप्रैरयन्। अवसरेऽस्मिन् परिसरैः प्राध्यापकैः संस्कृतप्रसारस्य दृढः संकल्पः प्रकटितः। अवसरेऽस्मिन् शिक्षाशास्त्रिविभागाध्यक्षः प्रो. लोकमान्यमिश्र, वरिष्ठाचार्यः प्रो. देवीप्रसादद्विवेदी व्याकरणविभागाध्यक्षः प्रो. भारतभूषणत्रिपाठी, साहित्यविभागाध्यक्षः प्रो. गजालाअंसारी, व्याकरणविभागीयाचार्यः प्रो. धनीन्द्रकुमारझा, आधुनिकविभागीयसहायकाचार्यो डा. एस.पी. सिंहः, साहित्यविभागीयसहायकाचार्यो डा. प्रफुल्लगडपालः, बौद्धदर्शनविभागीयसहायकाचार्या डा. कृष्णानेगी, साहित्यविभागीयसहायकाचार्यो डा. नीरजतिवारी, आधुनिकविभागीयासहायकाचार्या डा. रेखामिश्रा अनुभागाधिकारी, डा. काशीनाथद्विवेदी चेत्यादयोऽत्र समुपस्थिता आसन्।