भारतीय-प्रौद्योगिकी-संस्थान-रुड़की मध्ये संस्कृतसंभाषणशिविरस्य शुभारम्भः अभवत्। शिविरेऽस्मिन् केन्द्रीयसंस्कृतविश्वविद्यालयेन नियुक्ता संस्कृतशिक्षिका आचार्या शालिनीदीक्षिता शिविरपाठनस्य आरम्भं कृतवती। शिविरस्य उद्घाटनं डाॅ. सोहमचक्रवर्तीवर्याणाम् उपस्थितौ सरस्वतीपूजनपुरस्सरम् अभवत् , श्री नवलकिशोरपन्तः, श्री विष्णुदत्तगौड़महोदयाः अपि सरस्वती पूजने समुपस्थिताः आसन्। रामजीदीक्षितः सरस्वती वन्दनां कृतवान् । आचार्या शालिनीदीक्षितद्वारा तत्र उपस्थितान् छात्रान् अत्यंत रुचिपूर्णविधिना संस्कृतभाषायां परिचयः पाठितः। अयं पाठनक्रमः प्रतिदिनं प्रचलिष्यति ।











