- एते पी एम श्री विद्यालयाः आदर्शविद्यालयाः भविष्यन्ति ये राष्ट्रियशिक्षानीतेः पूर्णभावनां समाहितं करिष्यन्ति।
- एतेषु विद्यालयेषु आधुनिकरूपान्तरणं समग्रशिक्षा च भविष्यति।
- २०२० तमे वर्षे नूतना राष्ट्रियशिक्षानीतिः आरब्धा ।
- एनईपी १९८६ तमे वर्षे निर्मितस्य ३४ वर्षीयस्य शिक्षाविषये राष्ट्रियनीतेः स्थाने स्थापिता, तस्याः उद्देश्यं विद्यालयेषु उच्चशिक्षाव्यवस्थासु च परिवर्तनकारीसुधारस्य मार्गं प्रशस्तं कर्तुं वर्तते।
प्रधानमन्त्री नरेन्द्रमोदी ‘राइजिंग इण्डिया’ इत्यन्तर्गतं अशेषे हि देशे पञ्चशतोत्तर – चतुर्दशसहस्र – विद्यालयानां विकासाय उन्नयनाय च पी एम श्री ‘ इत्याख्या योजनां समुद्धोषितवान् ।
एकस्मिन् ट्वीट-सन्देशे श्रीमोदी समुदीरितवान् यत् पी एमश्री इत्यान्तर्गत आदर्श विद्यालयाः निर्वास्वन्ते ये राष्ट्रिय शिक्षा-नीतेः सम्पूर्णा भावनां धारविष्यन्ति। ‘पीएमश्री’ इति विद्यालयेषु शिक्षा प्रदानस्य अधुनिकी प्रणाली भविष्यति। श्रीमोदी प्रोदीरितवान् यत् असौ विश्वासं धारयति यत् राष्ट्रिय-शिक्षा नीतेः भावनायुतै: “पीएमश्री- विद्यालयै: देशस्य लक्षाधिका: छात्रा: लाभान्विताः भविष्यन्ति।











