अमरकोशस्य स्वर्गवर्गे अमरसिंहेन पार्वत्याः सप्तदश नामानि निर्दिष्टानि – ‘उमा कात्यायनी गौरी काली हैमवतीश्वरी…’ इत्यादीनि।आशयोsयं भवानी एव कात्यायनी।त्रिकाण्डशेषस्य नानार्थवर्गे कथितम्- ‘स्यात् कात्यान्यर्धवृद्धा- गौर्योः वररुचौ नरि’(232)।अर्थात् अर्द्धवृद्धायाः गौर्याः वररुचेः पत्न्याश्च वाचकोsयं शब्दः। हलायुधकोशे (अभिधानरत्नमालायाम्) कात्यायनिका इति शब्दः प्रयुक्तः। तत्र समानार्थकेषु अर्द्धवृद्धा, काषायवसना, विधवा, दुर्गा, याज्ञवल्क्य- पत्न्योः एका, कात्यायनस्य ऋषेः पत्नी चेति उल्लिखिताः।
मन्ये यथा लोके कस्याश्चिद् बालिकायाः सीता, पार्वती, शची, मेनका प्रभृति नामानि भवन्ति तथैव कात्यायनस्य याज्ञवल्क्यस्य च पत्न्या अपि संज्ञा भवितुम् अर्हति।किन्तु अर्द्धवृद्धा, कषायवसना त्वेते विशेषणे। विधवापि विशेषणमेव।विचार्यं यत् किं दुर्गाया एव एतादृशं रूपम्? अथवा लोके यौवन-वार्द्धक्ययोः मध्यवर्त्तिन्या अवास्थायाः सामान्यसंकेतकोsयं शब्दः? पुनश्च
दुर्गासप्तशत्याम् नारायणीस्तुतौ देवोक्तिः-
‘एतत्ते वदनं सौम्यं लोचनत्रयभूषितम्।
पातु नः सर्वभीतिभ्यः कात्यायनि नमोस्तु ते’।। (11.25)
अस्यां स्तुत्यां भगवत्याः मुखमण्डलं सौम्यं सुन्दरं वर्णितम्।सा त्र्यम्बकस्य शिवस्य शक्तिः। तद्वत् त्रिनयना, सूर्यचन्द्राग्निनेत्रा इति।
‘कात्यायनी’ शब्दः अवश्यमेव कात्यायनेन सम्बद्धो भवितुम् अर्हति। कारणं यद् दाक्षायणी, पार्वती, हैमवती इत्यादि- नामसु दक्षेण हिमालयेन योजनीयम्, किन्तु दक्ष-हिमवन्तोः एकस्यापि नेदं नाम। तदा प्रश्नोsयं यद् दुर्गा कात्यायनीति कथं कथ्यते? अवश्यमेव कात्यायनेन कोsपि सम्बन्धः।
अस्य शब्दस्य उत्पत्तिः विचार्या।पूर्वं कात्यायन इति शब्दः निर्वचनीयः। कतस्य गोत्रापत्यं कात्यायनः। अत्र यञ् + ष्फ इति द्वौ प्रत्ययौ। कात्यायन्यां स्त्रीत्वात् ङीष् प्रत्ययश्च।
वस्तुतः कालिकापुराणे महिषोपाख्यानम् आगतम्। तदनुसारेण पुरा महिषासुरः दिव्य-नारीरूपेण महर्षेः कात्यायनस्य शिष्यस्य रौद्राश्वस्य तपोभंगं कृतवान्। तेन महर्षिणा शप्तः –
‘यस्मात् त्वया मे शिष्योsयं मोहितः तपसः च्युतः।
कृतस्त्वया स्त्रीरूपेण तत् त्वां स्त्री निहनिष्यति।।‘(60.99)
सम्भाव्यते यत् कात्यायनस्य शापात् महिषोद्धाराय भगवत्या धृतं रूपं कात्यायनीति। किन्तु एतादृशी विचारणा न सन्तोषकरी। अनेन तु केवलं महिषवधस्य हेतुः निरूपितः। कात्यायन-कात्यायन्योः न कोsपि सम्बन्धः दृश्यते।
दुर्गासप्तशत्यां ‘ततः पराजिता देवाः पद्मयोनिं प्रजापतिम्। पुरस्कृत्य गताः तत्र यत्रेश-गरुणध्वजौ।।‘ (2.4) इत्यस्मिन् प्रसंगे प्रश्नः समुदेति कुत्र? कस्मिन् स्थाने? अस्योत्तरं सप्तशत्यां नोल्लिखितम्। वराहपुराणस्य अनुसारेण उत्तरम् अधिगम्यते। तदनुसारेण हिमालयक्षेत्रे महर्षेः कात्यायनस्य आश्रमे। वराहपुराणस्य (212.25) कथनं यत् श्लेष्तमातकम् इति नाम्नि वने तस्य आश्रमः आसीत्।
महिषोपाख्यानस्य सप्तशत्याः मध्यमचरित्रस्य च वस्तु एकम्, परन्तु कथासृष्टिः भिन्ना। कालिकापुराणे महिषस्य जन्मत्रयस्य कथा सम्बद्धा। ज्ञायते यत् सप्तशत्याम् तस्य तृतीयजन्मनः घटनेयम्, वर्णनेयम् इति। अस्तु, सर्वे देवाः कात्यायनस्य आश्रमं गतवन्तः। तत्रैव मुनेः शापफलस्य समयः आगतः। तत्रैव देवानाम् निःसृता क्रोधज्वाला पुंजीभूय नारीत्वं गता। कात्यायनस्य आश्रमे प्रकटीभूता सा, तेन कात्यायनीति। सा महर्षिणा प्रथमपूजिताsपि-
‘तत्तेजोभिः धृतवपुः देवी कात्यायनेन वै।
सन्धुक्षिता पूजिता च तेन कात्यायनी स्मृता।।‘(कालिकापुराणम्-60.76)
अत आद्या एव अवतीर्णा मुनेः यशोवृद्धये। भागवत-पुराणस्य अनुसारेण मार्गशीर्षे मासे हविष्यं भुंजानाभिः गोपकन्याभिः पतिरूपेण श्रीकृष्ण-प्राप्तये या पूजिता सापि इयमेव-
‘कात्यायनि महामाये महायोगिन्यधीश्वरि।
नन्दगोपसुतं देवि पतिं मे कुरु ते नमः।।‘(10.22.4)
अस्याः मूर्त्याः वर्णयन् मत्स्यपुराणे कथितम्-
‘कात्यायन्याः प्रवक्ष्यामि रूपं दशभुजं तथा।
त्रयाणामपि देवानाम् अनुकारानुकारिणीम्।।
जटाजूट- समायुक्तार्धेन्दु- कृतशेखराम्।।
लोचनत्रय- संयुक्तां पूर्णेन्दु- सदृशाननाम्।
अतसीपुष्प- वर्णाभां सुप्रतिष्ठां सुलोचनाम्।।
नवयौवन- सम्पन्नां सर्वाभरण- भूषिताम्।
सुचारुदशनां तद्वत् पीनोन्नत- पयोधराम्।।
त्रिभंग-स्थान- संस्थानां महिषासुर- मर्दिनीम्।।‘(260.55-59)
आशयोsयं कात्यायनी दशभुजा, श्यामा, नवयौवना, ब्रह्म- विष्णु- शिवात्मिका, जटाजूटेन अर्धचन्द्रेण च सुशोभिता, त्रिनयना, सर्वाभरणैः भूषिता, पुष्टांगी चास्ति।
यदि नवयौवना सा तु अर्धवृद्धा इयं कात्यायनी नास्ति। काचित् स्यात्। देवत्रयरूपा ब्रहम-विष्णुरूपा सा, अतः विधवा न भवितुमर्हति।
अत्र ‘त्रयाणामपि देवानाम् अनुकारानुकारिणीम्’ इति कथितम्। परन्तु दुर्गासप्तशत्याः ‘शान्तवी’टीकाकारेण कात्यायनीति दुर्गायाः नाम्नि एकीभूतायाः सरस्वत्याः लक्ष्म्याश्च अथवा उभयोः आधारायाः शक्त्याः दर्शनं कृतम्। तदुक्तिः इयम्- ‘कश्च ब्रह्मा अश्च विष्णुः तौ अततः सततं यथक्रमं गच्छतः प्राप्नुतः इति कात्यौ सरस्वती च रमा च। कर्मण्यण्। वाणी- रमयोः आसमन्तात् अयनी परमा गतिः परमाधिष्ठान-शक्तिः अधिदेवता कात्यायनी।‘ इति।
वस्तुतः एका एव आद्या। सा नाना रूपैः नाना नामभिः च ज्ञायते। महिषोद्धारिणी एव कात्यायनी। सा भक्तानाम् अपि समस्त-भीतिहरा।











