अस्या: प्रधानमन्त्रिणा नरेन्द्रमोदिना पी.एम. केयर्स फण्ड इत्यस्य न्यासीपरिषदः उपवेशनस्य अध्यक्षतां निर्वहन्, उदारमनसा योगदानाय च जनानां प्रशंसा कृता। उपवेशनेऽस्मिन् प्रधानमन्त्री सहायताकोषद्वारा पंचचत्वारिंशदुत्तर- त्रिशताधिक-चतुस्सहस्त्र- बालानां सहायता कर्तुः योजनायाः, तस्या: सद्प्रयासानां च चर्चा जाता। परिषदः पदाधिकारिभिः काठिन्ययुतेऽस्मिन् समये कोषस्य उल्लेखनीयायाः भूमिकाया: प्रशंसा विहिता। श्रीमोदिना च कोशमिमं पूर्णमनोयोगेन समर्थनाय देशवासिभ्य: साभारं साधुवादाः प्रेषिताः। चर्चायामुक्तं यत् प्रधानमन्त्री सहायता कोषः आपातस्थितौ प्रभावी भूमिकां निर्वहति । अनेनैव सह कोषोऽयं पुनर्वास आपदुद्धारादि कार्येष्वपि सहयोगं करोति। प्रधानमन्त्रिणा कोषेऽस्मिन् अभिन्नतया सम्बद्धतायै न्यासिनः प्रशंसिताः । उपवेशनेऽस्मिन् न्यासीभूताः मन्त्रिणः, मुख्यन्यायाधीशः, लोकसभायाः पूर्व-उपाध्यक्षः टाटासंस इत्यस्य एमेरिटस-रतनटाटा च प्रतिभागित्वम् अकुर्वन् । न्यासेन निर्णयोऽयं नीतः यत् अस्य न्यासस्य परामर्शदपरिषदि ख्यातनामानः जनाः अपि योजयिष्यन्ते। येषु भारतस्य पूर्वनियन्त्रकः महालेखाकारः राजीवमहर्षिः, इंफोसिस फाउण्डेशन इत्यस्य पूर्वाध्यक्षा सुधामूर्तिः, आनन्दशाहः आदयः सम्मिलिताः सन्ति। प्रधानमन्त्रिणा प्रोक्तं यत् न्यासे परामर्शदानां नियुक्त्यानन्तरं अस्य क्षेत्रमपि विवृतम् भविष्यति। श्रीमोदी उक्तवान् यत् एतेषां सुविदित-जनानां योजनानन्तरं एतेषां ज्ञानानुभवः आधिक्येन जना: लाभान्विताः भविष्यन्ति, सेवा-कार्ये च द्रुतताऽपि आगमिष्यति ।











