दुराशापीडितः नापितः ( पञ्चतन्त्र कथा )

पूर्वं पाटलीपुत्रनगरे मणिभद्रः नाम श्रेष्ठी आसीत् । कालान्तरे विधिवशात् सः अतीव निर्धनः जातः । दारिद्र्येण अत्यन्तं खिन्नः सः ‘प्राणत्यागं करोमि’ इति निश्चितवान् ।
परन्तु तस्मिन् दिने सः एकं स्वप्नं दृष्टवान् । स्वप्ने कश्चन क्षपणकः तेन दृष्टः । सः क्षपणकः उक्तवान्- “भोः मणिभद्र ! अहं भवतः पूर्वजैः सम्पादितः निधिः । मम नाम पद्मनिधिः इति । अहं भवतः गृहम् आगन्तुम् इच्छामि । प्रातः क्षपणकरूपेण तत्र आगमिष्यामि । भवान् दण्डेन मम शिरसि ताडयतु । अहं तदा कनकमयः भूत्वा अक्षय्यः भविष्यामि” इति । अनन्तरं मणिभद्रः जागरितः ।
अनन्तरदिने प्रातः स्वप्नोक्तरीत्या एकः क्षपणकः गृहम् आगतवान् । मणिभद्रः अपि दण्डेन तं क्षपणकं शिरसि ताडितवान् । क्षपणकः कनकमयः भूत्वा भूमौ पतितवान् । मणिभद्रः सर्वं कनकं गृहस्य अन्तः नीतवान् ।
अत्रान्तरे कश्चित् नापितः तत्र आगतवान् । सः प्रवृत्तं सर्वमपि दृष्टवान् । एतद् ज्ञात्वा मणिभद्रः नापितं गृहस्य अन्तः आहूय – “मित्र अत्र इदानीं भवता यद् दृष्टं तद् अन्यत्र कुत्रापि न वक्तव्यम्” इति उक्तवान् । तस्मै उपायनरूपेण किञ्चित् धनमपि दत्तवान् सः ।
नापितः स्वगृहं गत्वा चिन्तितवान् – ‘क्षपणकान् दण्डेन ताडयामः चेत् तेषां कनकमयत्वं सेत्स्यति इति तु निश्चितम् । अतः अहमपि तथैव करोमि’ इति ।
अनन्तरं प्रातःकाले नापितः क्षपणकविहारं गतवान् । तत्रत्यान् सर्वान् अपि क्षपणकान् – “भवन्तः अद्य मध्याह्ने भोजनार्थं मम गृहम् आगच्छन्तु'” इति प्रार्थितवान् ।
क्षपणकाः अङ्गीकृतवन्तः । मध्याह्ने गृहम् आगतवन्तः अपि । नापितः द्वारं पिधाय दण्डेन तेषां शिरसि ताडनम् आरब्धवान् । क्षपणकाः भीत्या कोलाहलं कृतवन्तः । कोलाहलं श्रुत्वा राजभटाः आगतवन्तः । ते नापितं न्यायालयं नीतवन्तः । तत्र न्यायाधिकारी नापितं पृष्टवान् – “किमर्थं भवान् क्षपणकान् ताडितवान् ?” इति ।
नापितः मणिभद्रस्य गृहे दृष्टं सर्वमपि उक्तवान् । न्यायाधिकारी मणिभद्रम् आहूय तस्य मुखात् सर्वं वृत्तान्तं ज्ञातवान् । अनन्तरं दुराशापीडितं तं नापितं शूलम् आरोपितवान् च ।