सुखी स्यादविवाहित: ?

डा० पी एम शाश्त्री

एकदा यज्ञदत्तस्तु देवदत्तमुवाच यत् सखे! मम विवाहस्तु नाड सावधिद्यपि स्थितः ॥ पञ्चत्रिंशत्तमे वर्षे आयु में सांप्रतं परम् । न च कश्चित् कथञ्चिद वा विवाहे यतते मम ॥
अत एव कमप्येकार उपायं कथयस्व माम् । येनाऽहमपि शीघुँ हि प्रमवेयं विवाहितः ।। यज्ञदत्तस्य तद्वाचं श्रुत्वा तस्य सखा तदा। विहस्य देवदत्तस्तु वाक्यमेवम् उवाच चत्
गुरूणामतिथीनां च पितॄणां चाऽपि श्रद्धया। प्रणामं कुरुषे यत्त्वं तदा ते स्नेहसंयुताः ॥ ” सुखी भव सदा पुत्र ! ” इति वाक्य – पुरःसरम् । आशीर्वचांसि यच्छन्ति तदेव त्वत्र बाधकम्।।
ईप्साम् एवं विधानां वै वचसाम् आशिषां तथा। सदा परिहरस्व त्वं विवाहो यदि वाञ्छसि ।।
यतो हि साम्प्रतं लोके भूत्वा कश्चिद विवाहिता। कथं सुखी भवेत ? तस्माद् विवाहस्ते न जायते।