प्रधानमन्त्री नरेन्द्रमोदी सप्ततिवर्षानन्तरं, अद्य मध्यप्रदेशाय राष्ट्राय च ऐतिहासिकोपहारं प्रदत्त्वान ।
प्रधानमन्त्री नरेन्द्रमोदी अद्य नामीबीयातः समागतानाम् अष्टव्याघ्रानां मध्यप्रदेशस्य कुनो इति राष्ट्रियोद्याने अवमुक्तिं कृतवान। वृहद्-वन्य-जीवानां पुनर्स्थापनाय विश्वस्य एषा प्रथमा अन्तर्महाद्वीपीया परियोजना वर्तते। प्रधानमन्त्री श्री मोदी प्रायशः लक्षाधिकानां स्वयंसाहाय्य समूहानां सम्मेलने सम्बोधितवान।
नामीबीयायां भारतीयोच्चायुक्तः प्रशान्त अग्रवालः प्रोक्तवान् यत् व्याघ्रानां स्थानान्तरणस्य एषा अद्वितीया प्रथमा अन्तर्महाद्वीपीया परियोजना। असौ संसूचितवान् यत् प्रधानमन्त्रिणः मोदिन: दृढाभिव्यक्तिः यत् भारतेन स्वीय-वन्यजीवः प्राकृतिकावासैः सह पारिस्थितिक तन्त्र-सम्बद्धाना समेषां रक्षण करिष्यते। श्री अग्रवालः समुदीरितवान् यत् पुनःपरिचयस्य एक विशिष्टं महत्वं यतो हि साम्प्रतिके वर्षे भारतेन स्वीयस्वातन्त्रस्य पञ्चसप्ततितमः अमृतकाल: आमान्यते। असौ दृढसमर्थनमालक्ष्य नामीबीया सर्वकाराय धन्यवादः ज्ञापितः।
बृहन्मांसभक्षिणां वन्यपशूनां अन्तर्महाद्वीपीय स्थानान्तरणस्य एषा विश्वस्य प्रथमा परियोजना वर्तते। एते पशवः सन्धिज्ञापनान्तर्गतं नामीबियादेशतः आनीता: सन्ति। दीनदयाल अन्त्योदय योजना-राष्ट्रिय-ग्रामीण आजीविका योजनान्तर्गतं महिलानां सहस्रशः स्वसहायता समूहाः सम्मेलनेऽस्मिन् सहभागितां विहितवन्तः।











