अग्नीषोमात्मकं विश्वम

मार्कण्डेय शारदेयः (पटना, बिहारस्थः)

इदं विश्वं प्रकृति-पुरुषयोः योगात् भूतम् । अयं द्वन्द्वः नाना नामभिः ज्ञायते, यथा- मायाब्रह्मणी, अग्नीषोमी, नादबिन्दू, शिवशक्त्यौ, सूर्यचन्द्रमसौ, मातापितरौ, स्त्री- पुमांसौ इत्यादयः । शिवपुराणस्य वायवीयायां संहितायाम् अग्निषोमौ, शब्दार्थों च मतौ । अनयोः एव संसारः इति निर्दिष्टः । श्रीकृष्णेन अपि सङ्केतमात्रेण समासभेदेषु आत्मानं गीतायां कथितम्-
द्वन्द्वः सामासिकस्य च ( 10.33)
अग्नीषोमात्मकं विश्वम् इति कथम् ? अत्र विचार्यम्। अग्निश्च सोमश्च इति अग्नीषोमौ । अग्नीषोमौ आत्मानौ यस्य तत् अग्निषोमात्मकम् । अस्मिन् पुराणे विषयेऽस्मिन् कथितम्
अग्निः इत्युच्यते रौद्री घोरा या तैजसी तनुः। सोमो शाक्तोऽमृतमयः शक्तेः शान्तिकरी तनुः।।
अमृतं यत् प्रतिष्ठा सा तेजो विद्या कला स्वयम्। भूतसूक्ष्मेषु सर्वेषु त एव रसतेजसी ।। (7.1.28.3-4)
आशयोऽयं यत् अग्निः घोरः शिवरूपः, सोमश्च अमृतमयः शान्तिमयश्च शक्तिरूपः। अनयोः अमृतं प्रतिष्ठा, अर्थात् शक्तिः प्रतिष्ठा, तेजः विद्या, अर्थात् शिवः। उभौ समस्तेषु भूतेषु सूक्ष्मतया एकात्मकत्वेन रसतेजो मयत्वेन व्याप्तौ ।
पुनः तेजसः सोमस्य च द्विधत्वं निरूपयन् कथयति
द्विविधो तेजसो वृत्तिः सूर्यात्मा चानलात्मिका ।
तथैव जलवृत्तिः तु सोमात्मा च जलात्मिका ।।
( 7.1.28.5)
अर्थात्; तेजोवृत्तिः सूर्यरूपा अग्निरूपा च । रसोवृत्तिः अपि द्विविधा सोमरूपा जलरूपा चेति। इदं तेजः विद्युदादि-रूपेण उपलभ्यते, तु रसः मधुरादिरूपेण। अनयोः भेदैः एव चराचरं जगद् धार्यते।
केन प्रकारेण अनयोः व्याप्तिः ? कथं आम्यां धार्यते जगद्? इत्यनयोः प्रश्नयोः स्पष्टीकरणे कथयति
अग्नेः अमृत-निष्पत्तिः अमृतेनाग्निः एधते।
अतएव हि विक्रान्तम् अग्नीषोमं जगखितम्।।
हविषे शस्यसम्पत्तिः वृष्टिः शस्याभिवृद्धये ।
वृष्टेरेव हविः तस्माद् अग्नीषोमघृतं जगत् ।।
(7.1.28.7-8)
हवनकर्मणि आघार-संज्ञके आज्याहुत्याम् आदौ ऐशान्यां मनसा इदं प्रजापतये स्वाहा, इदं प्रजापतये न मम । नैर्ऋत्याम् इदम् इन्द्राय स्वाहा, इदम् इन्द्राय न मम। अनेन प्रकारेण हवनकुण्डस्य उत्तरभागे इदम् अग्नये स्वाहा, इदम् अग्नये न मम। दक्षिणभागे- इदं सोमाय स्वाहा, इदं सोमाय न मम। अनयोः अग्नये सोमाय च अर्पितेन घृतेन अग्निवृद्धिः जगद्धृतिश्च जायते । एतद्रहस्यम् एव उद्घाटयन् कथयति वायुदेवः ‘हविषे शस्यसम्पत्तिः…’ इति।
गीतायामपि यदेतत् कथितम्, एतदेव सङ्केतीकरोति
अन्नाद् भवन्ति भूतानि पर्यन्याद् अन्नसम्भवः ।
यज्ञाद् भवति पर्यन्यः यज्ञो कर्मसमुद्भवः ।
। ( 3.14)
वस्तुतः तेजोरूपः शिवः शिवः एव सूर्यः अग्निश्च सोमरूपा भगवती जलञ्च । भगवतीरूपः चन्द्रः । सूर्य-चन्द्रयोः तात्त्विकः संयोगः संसारः । अनेन श्रीलक्ष्मणदेशिकेन विश्रुतेन तन्त्रविबुधेन शारदातिलकम् इत्याख्ये तन्त्रग्रन्थेऽपि देहे उभयोः, अर्थात् अग्नेः सोमस्य च स्थानं निर्दिष्टम्
अग्निषोमात्मको देहो बिन्दुः यदुभयात्मकः ।
दक्षिणांशः स्मृतः सूर्यः वामभागो निशाकरः।। (1.39)

पुनः सूर्यः शिवो वा शुक्ररूपः, तु चन्द्रः भगवतीरूपः शोणितरूपः वा । उभयात्मकः बिन्दुः बिन्दोः सृष्टिः इयम्। उभयोः अग्निः उभयात्मकः।
कथितञ्च
कलाषोडशकः चन्द्रः स्याद् द्वादशकलो रविः ।
कलादशयुतो वह्निः कलाष्ट- त्रिंशवंश- भुक् ।।
सप्त (अष्ट)-
त्रिंशद् भवन्तीह गर्भाधानस्य हेतवे।
अग्निषोमात्मकं तेन गीयते सचराचरम् ।।

अस्माकं शरीरे अनन्ताः नाड्यः सन्ति। आसु दश प्रमुखाः सन्ति इडा, पिङ्गला, सुषुम्णा, गान्धारी, हस्तिजिह्वा, सुपूषा, अलम्बुषा, यशस्विनी, शङ्खिनी, कुहू चेति। आसु दशसु अपि इडा, पिङ्गला, सुषुम्णा एताः तिस्रः सर्वाधिकाः मुख्याः । पुनः श्रीलक्ष्मणदेशिकः नाडीषु तिसृणां महत्त्वं प्रतिपादयन् कथयति
नाडी: वश विदुः तासु मुख्याः तिस्रः प्रकीर्तिताः।
इडा वामे तनोः मध्ये सुषुम्णा पिङ्गला परे ।।
मध्या तास्वपि नाडी स्याद् अग्नीषोम-स्वरूपिणी ।
( 1.40-41)
आशयोऽयं इडा-पिङ्गलयोः मध्ये सुषुम्णा नाडी स्थिता । सा सर्वासु प्रमुखा । अर्थात्ः इडा सूर्यरूपिणी, पिङ्गला चन्द्ररूपिणी, मुख्यतमा सुषुम्णा सूर्य-चन्द्रमयी, उभयात्मिका अग्निरूपिणी
पुनः देहोत्पत्ती श्रीदेशिकः कथयति
‘स्नाय्वस्थि-मज्जा शुक्रात् त्वङ्मांसाम्नाणि शोणितात्।
षट्कौशिकम् इदं प्रोक्तं सर्वदेहेषु देहिनाम्’ ।।
( 1.47 ) अर्थात् पितुः शुक्रेण अस्माकं स्नायवः अस्थीनि मज्जाश्च प्रभवन्ति, तु मातुः शोणितेन अस्माकं त्वक्, मांसम्, रक्तञ्चेति । अन्यत्र विस्तरे इत्थं कथितम् मृदवः शोणितं मेदो-मांस- प्लीहा – यकृद्- गुदः । हन्नाभीत्येवम् आद्याः तु भावा मातृभवा मताः । । ‘श्मश्रु- लोम- कचाः स्नायु- शिराधमनयो नखाः । दशनाः शुक्रम् इत्यादि स्थिताः पितृसमुद्भवाः।।
अतः अग्नीषोमात्मकं विश्वमिति स्पष्टम्
।