विश्वपर्यटनदिवसे महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य सांस्कृतिकं भ्रमणम्

उज्जयिनीस्थ महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य ज्योतिषज्योतिर्विज्ञानविभागेन विश्वपर्यटनदिवसस्योपलक्ष्ये (27-09-2022) तमे दिनाङ्के सांस्कृतिकं भ्रमणस्य आयोजनं कृतम्। विश्वविद्यालयपरिसरादारभ्य श्रीकृष्णसुदामा स्थलं नारायणा, माहिद्पुरदुर्गं श्रीधूर्जटेश्वरमहादेवमन्दिरम्, अश्वनीशोधसंस्थानं माहिद्पुरम् इत्यादीनि स्थलानां भ्रमणं छात्रैः, प्राध्यापकैः च कृतम् । नारायणास्थले विश्वविद्यालयस्य कुलपतिः माननीय: आचार्यविजयकुमार: सी. जी महोदय: छात्रान् सम्बोधितवान् तेनोक्तम् यत् – ‘दिनमिदं सांस्कृतिकं पर्यटकीयज्ञानस्य अनुभवार्थं वर्तते । अस्मिन् पर्यटनदिवसे अस्माकं पुरातिहासं, संस्कृतिम्, राष्ट्रवैभवञ्च अस्माभिः ज्ञातुं शक्यते । संस्कृतिकशैक्षिकभ्रमणेन छात्राः अस्माकं भारतीयज्ञानपरम्परया परिचिताः भवन्ति ।’ महिद्पुरस्थ अश्वनीशोधसंस्थानस्य निदेशकः डॉ. आर्. सी. ठाकुरमहोदयेन ऐतिहासिकं वृत्तान्तं श्रावितम् । तेन युद्धं, सैन्यप्रशिक्षणं, पुरातात्विकं सम्बद्धान् तत्वान् प्रकाशितम् । विश्वविद्यालयस्य ज्योतिषज्योतिर्विज्ञानविभागप्रमुखेन डॉ. शुभम् शर्ममहोदयेन उक्तम् यत् ‘प्रतिवर्षं विश्वपर्यटनदिवसे विश्वविद्यालयेन सांस्कृतिकशैक्षिकभ्रमणस्य आयोजनं क्रियते । अनेन आयोजनेन छात्राः लाभान्विताः भवन्ति । देशस्य पुरा गौरवञ्च अनुभवन्ति ।’ अवसरेऽस्मिन् योगविभागाध्यक्षः डॉ. उपेन्द्रभार्गव महोदयः विश्वविद्यालयस्य विभिन्नविभागे कार्यरताः प्राध्यापका उपस्थिताः आसन् ।